पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


9 १८४ मनुस्मृतिः। [अध्यायः ५ प्राणात्यये मांसभक्षणानुवादमाह- प्राणस्थानमिदं सर्वं प्रजापतिरकल्पयत् । स्थावरं जङ्गमं चैव सर्व प्राणस्य भोजनम् ॥ २८॥ प्राणस्यान्नमिति ॥ प्राणितीति प्राणो जीवः शरीरान्तर्गतो भोक्ता तस्याद- नीयं सर्वमिदं ब्रह्मा कल्पितवान् । किं तदाह । जंगमं पश्वादि, स्थावरं ब्रीहिय- वादि सर्वं तस्य भोजनम् । तस्मात्प्राणधारणाथै जीवो मांसं भक्षयेत् ॥ २८ ॥ प्राणस्यार्थमिदं सर्वमित्येवं प्रपञ्चयति- चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः। अहस्ताश्च सहस्तानां शूराणां चैव भीरवः॥ २९ ॥ चराणामिति ॥ जगमानां हरिणादीनामजङ्गमास्तृणादयः, दंष्ट्रिणां यानादी- नामदंष्ट्रिणो हरिणादयः, सहस्तानां मनुष्यादीनामहस्ता मत्स्यादयः, शूराणां सिंहादीनां भीरवो हस्त्यादयोऽदनीया एतादृश्यां विधातुरेव सृष्टौ ॥ २९ ॥ नात्ता दुष्यत्यदन्नाद्यान्प्राणिनोऽहन्यहन्यपि । धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥३०॥ नात्तेति ॥ भक्षयिता भक्षणान्प्रिाणिनः प्रत्यहमपि भक्षयन्न दोषं प्राप्नोति । यस्माद्विधाचैव भक्षणार्थी भक्षयितारश्च निर्मिता इति त्रिभिः श्लोकैः प्राणात्यये मांसभक्षणस्तुतिरियम् ॥ ३० ॥ अथ प्रोक्षितभक्षणनियमार्थवादमाह- यज्ञाय जग्धिर्मासस्येत्येष दैवो विधिः स्मृतः। अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥३१॥ यज्ञायेति ॥ यज्ञसंपत्त्यर्थं तदङ्गभूतमांसस्य जग्धिर्भक्षणमेतदेवमनुष्ठानं उक्तव्य- तिरिक्तप्रकारेण पुनरात्मार्थमेव पशु व्यापाद्य तन्मांसभक्षणेषु प्रवृत्ती राक्षसोचि- तमनुष्टानमित्युत्तरार्धे वृथामांसभक्षणनिवृत्त्यनुवादः ॥ ३१ ॥ क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा । देवान्पिढेंचार्चयित्वा खादन्मांसं न दुप्यति ॥ ३२ ॥ क्रीत्वेति ॥ क्रीत्वा आत्मना चोत्पाद्य अन्येन वा केनाप्यानीय दत्तं मांसं देव- पितृभ्यो दत्त्वा शेष भक्षयन्न पापं प्राप्नोति । अतः प्रोक्षितादिचतुष्टयभक्षणवन्नेदं नियतं भक्षणं न दुप्यतीत्यभिधानात् । 'वर्षे वर्षेऽश्वमेधेन' इत्यादिवक्ष्यमाणमांस- वर्जनविधिरप्येतद्विपय एवाविरोधात् ॥ ३२ ॥ नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः। जग्ध्वा ह्यविधिना मांसं प्रेत्य तैरद्यतेऽवशः॥३३॥