पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५ मन्वथमुक्तावलासवालता । बभूवुरिति ॥ यस्मात्पुरातनेष्वप्यृषिकर्तृकयज्ञेषु च भक्ष्याणां मृगपक्षिणां मांसेन पुरोडागा अभवंस्तस्माद्यज्ञार्थमधुनातनैरपि मृगपक्षिणो वध्याः ॥ २३ ॥ इदानीं पर्युषितप्रतिप्रसवार्थमाह- यन्किचित्स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् । तत्पर्युषितमप्याद्यं हविःशेषं च यद्भवेत् ॥ २४ ॥ यत्किंचिदिति ॥ यत्किंचित्खरविशदमभ्यवहार्य मोदकादि, भोज्यं पायसादि, अगर्हितमुपघातान्तररहितं तत्पर्युषितं रात्र्यन्तरितमपि घृततैलदध्यादिसंयुक्तं कृत्वा भक्षणीयम् । नतु प्रागेव यत्स्नेहसंयुक्तं तत्पर्युषितं भक्षणीयमिति व्याख्येयम् । तथाच सति हविःशेषस्य स्नेहसंयोगावश्यंभावात् 'यत्किंचित्स्नेहसंयुक्तं' इत्यनेनैव भक्षणे सिद्धे 'हविःशेषं च यद्भवेत्' इत्यनर्थकं स्यात् । स्मृत्यन्तरेऽपि भक्षणकाल एवाभिधारणमुपदिश्यते। तथाच यमः-'मसूरमाषसंयुक्तं तथा पर्युषितं च यत् तत्तु प्रक्षालितं कृत्वा भुञ्जीत ह्यभिधारितम्' । हविःशेषं तु चरुपुरोडाशादि पर्युषितमपि भोजनकाले स्नेहसंयोगशून्यमेव भक्षणीयं पृथगुपदेशात् ॥ २४ ॥ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः। यवगोधूमजं सर्व पयसश्चैव विक्रिया ॥ २५ ॥ चिरस्थितमिति ॥ अनेकरात्र्यन्तरिता अपि यवगोधूमदुग्धविकाराः स्नेहसंयो- गरहिता अपि द्विजातिभिर्भक्षणीयाः ॥ २५ ॥ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः। मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥२६॥ एतदुक्तमिति ॥ एतद्विजातीनां भक्ष्याभक्ष्यमुक्तं, अत ऊर्ध्वं मांसस्य भक्षणे वर्जने च विधानं निःशेषं वक्ष्यामि ॥ २६ ॥ प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया । यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥२७॥ प्रोक्षितमिति ॥ 'प्रोक्षितं भक्षयेत्' इति परिसंख्या वा स्यान्नियमविधिर्वा । तत्र परिसंख्यात्वे प्रोक्षितादन्यन्न भक्षणीयमिति वाक्यार्थः स्यात् । स चानुपाकृत- मांसानीत्यनेनैव निषेधात्याप्तः, तस्मान्मन्त्रकृतप्रोक्षणाख्यसंस्कारयुक्तयज्ञहुतपशु- मांसभक्षणमिदं यज्ञाझं विधीयते । अतएव 'असंस्कृतान्पशून्मन्त्रैः' इत्यस्यानु- वादं वक्ष्यति । ब्राह्मणानां च यदा कामना भवति तदावश्यं मांसं भोक्तव्यमिति तदापि नियमत एकवारं भक्षयेत् 'सकृद्राह्मणकाम्यया' इति यमवचनात् । तथा श्राद्धे मधुपर्के च 'नामांसो मधुपर्कः' इति गृह्यवचनान्नियुक्तेन नियमा- न्मांसं भक्षणीयमिति । अतएव 'नियुक्तस्तु यथान्यायम्' इत्यतिक्रमदोषं वक्ष्यति । प्राणात्यये चाहारान्तराभावनिमित्तके व्याधिहेतुके वा नियमतो मांस भक्ष- येत् ॥ २७ ॥