पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१७७
मन्वर्थमुक्तावलीसंवलिता।

दात्मापहारकः । अन्यः स्तेनो द्रव्यान्तरमपहरति अयं तु सर्वप्रधानमात्मानमेवापहरेत् ॥ २५५ ॥

वाच्यार्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः।
तांस्तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः॥२५६ ॥

 वाच्यर्था इति ॥ सर्वेऽर्थाः शब्देषु नियता वाच्यत्वेन नियताः वाङ्मूलाश्च शब्दास्तेषां प्रतिपत्तौ शब्देभ्य एव प्रतीयन्ते प्रतीतिद्वारेण शब्दमूलत्वं शब्देभ्य एवावगम्य चानुष्ठीयन्त इति वाग्विनिर्गता इत्युच्यन्ते । अतएव 'वेदशब्देभ्य एवादौ' इति ब्रह्मणोऽपि सृष्टिर्वेदशब्दमूलैवोक्ता । अतो यस्तां वाचं स्तेनयेत्स्वार्थव्यभिचारिणी वाचयति स नरः सर्वार्थस्तेयकृद्भवति ॥ २५६ ॥

महर्षिपितृदेवानां गत्वानृण्यं यथाविधि ।
पुत्रे सर्वं समासज्य वसेन्माध्यस्थमाश्रितः॥२५७ ॥

 महर्षीति ॥ गृहस्थस्यैव संन्यासकारोऽयमुच्यते । महर्षीणां स्वाध्यायेन, पितॄणां पुत्रोत्पादनेन, देवतानां यज्ञैर्यथाशास्त्रमानृण्यं गत्वा योग्यपुत्रे सर्वं कुटुम्बचिन्ताभारमारोप्य माध्यस्थमाश्रितः पुत्रदारधनादौ त्यक्तममत्वो ब्रह्मबुद्ध्या सर्वत्र समदर्शनो गृह एव वसेत् ॥ २५७ ॥

एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः ।
एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ २५८ ॥

 एकाकीति ॥ काम्यकर्मणां धनार्जनस्य च कृतसंन्यासः षष्ठाध्याये वक्ष्यमाणः पुत्रोपकल्पितवृत्तिरेकाकी निर्जनदेशे आत्महितं जीवस्य ब्रह्मभावं वेदान्तोक्तं सर्वदा ध्यायेत् । यस्मात्तद्ध्यायन्ब्रह्मसाक्षात्कारेण परं श्रेयो मोक्षलक्षणं प्राप्नोति ॥ २५८ ॥

एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ।
स्नातकव्रतकल्पश्च सत्त्वद्धिकरः शुभः॥२५९ ॥

 एषेति ॥ अयमध्यायार्थोपसंहारः । एषाऋतादिवृत्तिर्गृहस्थस्य ब्राह्मणस्योक्ता । शाश्वती नित्या । आपदि त्वनित्या वक्ष्यते । स्नातकव्रतविधिश्व सत्त्वगुणस्य वृद्धिकरणे प्रशस्त उक्तः ॥ २५९ ॥

अनेन विप्रो वृत्तेन वर्तयन्वेदशास्त्रवित् ।
व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ २६० ॥

 इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां चतुर्थोऽध्यायः ॥ ४ ॥

 अनेनेति ॥ सर्वस्योक्तस्य फलकथनमिदम् । अनेन शास्त्रोक्ताचारेण वेदविद्ब्राह्मणो वर्तमानो नित्यकर्मानुष्ठानात्क्षीणपापः सन्ब्रह्मज्ञानप्रकर्षेण ब्रह्मैव लोकस्तस्मिँल्लीनो महिमानं सर्वोत्कर्षं प्राप्नोति ॥ २६० ॥

इति श्रीकुल्लुकभट्टकृताया मन्वर्थमुक्तावल्यां मनुवृत्तौ चतुर्थोऽध्यायः ॥ ४ ॥