नाश्नन्तीति ॥ तेनोपकल्पितं श्राद्धेषु कव्यं पञ्चदश वर्षाणि पितरो न भुञ्जते । नच यज्ञेषु तेन दत्तं पुरोडाशादि हव्यमग्निर्वहति देवान्प्रापयति, यस्तां भिक्षां न स्वीकरोति ॥ २४९ ॥
शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । |
शय्यामिति ॥ गन्धान्गन्धवन्ति कर्पूरादीनि, धानाः भ्रष्टयवतण्डुलान्, पयः क्षीरं, पूर्वमाहरणोपायनिबन्धेन गवादीनामप्रत्याख्यानमुक्तं, शय्यादीनि त्वयाचिताहृतान्यपि दात्रा स्वगृहस्थितान्ययाचितोपकल्पितानि न प्रत्याचक्षीत ॥२५०॥
गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् । |
गुरूनिति ॥ मातापित्रादीन्गुरून्भृत्यांश्च भार्यादीन्क्षु धावसन्नानुद्धर्तुमिच्छन्पतितादिवर्जं सर्वतः शूद्रादेरसाधुभ्यश्च प्रतिगृह्णीयात् नतु तेन धनेन स्वयं वर्तेत ॥ २५१ ॥
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् । |
गुरुष्विति ॥ मातापित्रादिषु मृतेषु तैर्वा जीवद्भिरपि स्वयोगावस्थितैर्विना गृहान्तरे वसन्नात्मनो वृत्तिमन्विच्छन्सर्वदा साधुभ्यो गृह्णीयादेव ॥ २५२ ॥
आर्धिकः कुलमित्रं च गोपालो दासनापितौ। |
आर्धिक इति ॥ आर्धिकः कार्षिकः। संबन्धिशब्दाश्चैते । यो यस्य कृषिं करोति स तस्य भोज्यान्नः । एवं स्वकुलस्य मित्रं, यो यस्य गोपालो, यो यस्य दासः, यो यस्य नापितः कर्म करोति, यो यस्मिन्नात्मानं निवेदयति दुर्गतिरहं त्वदीयसेवां कुर्वन्निति च त्वत्समीपे वसामीति यः शूद्रस्तस्य भोज्यान्नः ॥ २५३ ॥
यथात्मनिवेदनं शूद्रेण कर्तव्यं तदाह-
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् । |
यादृश इति ॥ अस्य शूद्रस्य कुलशीलादिभिर्यादृश आत्मा स्वरूपं, यच्चास्य कर्म कर्तुरीप्सितं, यथा चानेन सेवा कर्तव्या तेन प्रकारेणात्मानं कथयेत् ॥ २५४
योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते । |
योऽन्यथेति ॥ य इति सामान्यनिर्देशात्प्रकृतशूद्रानन्योऽपि यः कश्चित्कुलादिभिरन्यथाभूतमात्मानमन्यथा साधुषु कथयति स लोकेऽतिशयेन पापंकारी चौरः यस्मा-