यद्यपि लिङ्गशरीरावच्छिन्नो जीव एव गच्छति तथापि ब्रह्मांशत्वाद्ब्रह्मस्वरूपमुपपन्नं, धर्म एव चेत्परं लोकं नयति ततो धर्ममनुतिष्ठेत् । 'नहि वेदाः स्वधीतास्तु शास्त्राणि विविधानि च। तत्र गच्छन्ति यत्रास्य धर्म एकोऽनुगच्छति' ॥ २४३ ॥
उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत्सह । |
उत्तमैरिति ॥ कुलमुत्कर्षं नेतुमिच्छन्विद्याचारजन्मादिभिरुत्कृष्टैः सह सर्वदा कन्यादानादिसंबन्धानाचरेत् । अपकृष्टांस्तु संबन्धांस्त्यजेत् । उत्तमविधानादेवाधमपरित्यागे सिद्धे यत्पुनरधमांस्त्यजेदित्यभिधानं तदुत्तमासंभवे स्वतुल्याद्यनुज्ञानार्थम् ॥ २४४ ॥
उत्तमानुत्तमान्गच्छन्हीनान्हीनांश्च वर्जयन् । |
उत्तमानिति ॥ उत्तमान्गच्छंस्तैः सह संबन्धं कुर्वन्ब्राह्मणः श्रेष्ठतां गच्छति । प्रत्यवायेन विपरीताचारेण हीनैः सह संबन्धे जातेरपकर्षतया शूदतुल्यतामेति ॥ २४५ ॥
दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् । |
दृढकारीति ॥ प्रारब्धसंपादयिता दृढकारी । मृदुरनिष्टरः । दमस्य पृथगुपादानाद्दन्त इति शीतातपादिद्वन्द्वसहिष्णुर्गृहीतव्यः। क्रूराचारैः पुरुषैः संसर्गं परिहरन्, परहिंसानिवृत्तः, तथाव्रत एव नियमदमेन्द्रियसंयमाख्येन च दानेन स्वर्गं प्राप्नोति॥
एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । |
एधोदकमिति ॥ काष्ठजलफलमूलमधूनि अन्नं चाभ्युद्यतमयाचितोपनीतम् । 'अन्यत्र कुलटाषण्डपतितेभ्यस्तथा द्विषः' इति याज्ञवल्क्यवचनात्कुलटादिवर्ज सर्वतः शूद्रादिभ्योऽपि प्रतिगृह्णीयात् । आममेवाददीतास्मादित्युक्तत्वादामान्नमेव शूद्रात्प्रतिग्राह्यम् । अभयं चात्मत्राणात्मकं प्रीतिहेतुत्वाद्दक्षिणातुल्यं चंडालादिभ्योपि स्वीकुर्यात् ॥ २४७ ॥
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् । |
आहृताभ्युद्यतामिति ॥ आहृतां संप्रदानदेशमानीताम् । अभ्युद्यतामाभिमुख्येन स्थापिताम् । अप्रचोदितां प्रतिग्रहीत्रा स्वयमन्यमुखेन वा पूर्वमयाचितां दात्रा च तुभ्यमिदं ददानीति पूर्वमकथितां हिरण्यादिभिक्षां नतु सिद्धान्नरूपाम् । 'अन्नमभ्युद्यतं च' इत्युक्तत्वात्पापकारिणोऽपि पतितादिवर्जं ग्राह्या इति विरिञ्चिरमन्यत ॥ २४८ ॥
नाश्नन्ति पितरस्तस्य दश वर्षाणि पश्च च । |