पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१६८
[अध्यायः ४
मनुस्मृतिः।

यमान्सेवेत सततं न नित्यं नियमान्बुधः।
यमान्पतत्यकुर्वाणो नियमान्केवलान्भजन् ॥ २०४॥

 यमानिति ॥ नियमापेक्षया यमानुष्ठानगौरवज्ञापनार्थमिदं नतु नियमनिषेधार्थम् । द्वयोरेव शास्त्रार्थत्वात् । यमनियमविवेकश्च मुनिभिरेवं कृतः । तदाह याज्ञवल्क्यः - 'ब्रह्मचर्यं दया क्षान्तिार्ध्यानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः॥ स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमो गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥'यमनियमस्वरूपज्ञः समस्तस्नानादिनियमत्यागेनाप्यहिंसादिरूपं यममनुतिष्ठेत् । नियमाननुतिष्ठन्नपि यमानुष्ठानरहितः पततीत्ययं यमस्तुत्यर्थआरम्भ इति ॥ मेधातिथिगोविन्दराजौ हिंसादिप्रतिषेधार्थकाः यमाः, वेदमेव जपेन्नित्यम्' इत्यादयोऽनुष्ठेयरूपा नियमा इति व्याचक्षते । 'अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेयमिति पञ्चैते यमा वै परिकीर्तिताः ॥ अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । अप्रमादश्च सततं पञ्चैते नियमाः स्मृताः' ॥२०४॥

नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
स्त्रिया क्लीवेन च हुते भुञ्जीत ब्राह्मणः क्वचित् ॥ २०५॥

 नाश्रोत्रियेति ॥ अनधीतवेदेनोपक्रान्ते यज्ञेऽग्नीषोमीयादूर्ध्वमपि भोजनयोग्यसमये ब्राह्मणो न भुञ्जीत । तथा बहूनां याजकेन ऋत्विजा स्त्रिया नपुंसकेन च यत्र यज्ञे हूयते तत्र कदाचिन्न भुञ्जीत ॥ २०५॥

अश्लीकमेतत्साधूनां यत्र जुह्वत्यमी हविः ।
प्रतीपमेतद्देवानां तस्मात्तत्परिवर्जयेत् ॥ २०६॥

 अश्लीकमिति ॥ पूर्वोक्ता बहुयाजकादयो यत्र होमं कुर्वन्ति तत्कर्म शिष्टानामश्लीकमश्रीकं श्रीघ्नम् । रेफस्य स्थाने लकारः । देवानां प्रतिकूलं तस्मादेतद्धोमं न कारयेत् ॥ २०६॥

मत्तक्रुद्धातुराणां च न भुञ्जीत कदाचन ।
केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ २०७॥

 मत्तक्रुद्धातुराणामिति ॥ क्षीबक्रुद्धव्याधितानामन्नं तथा केशकीटसंसर्गदुष्टं पादेन चेच्छातः संस्पृष्टमन्नं न भुञ्जीत ॥ २०७ ॥

भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया ।
पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ २०८ ॥

 भ्रूणघ्नेति ॥ भ्रूणघ्नेत्युपलक्षणाद्गोघ्नेत्यादिपतितावेक्षितं रजस्वलया च स्पृष्टं पक्षिणा च काकादिना स्वादितं कुक्कुरेण च स्पृष्टमन्नं न भुञ्जीत ॥ २०८ ॥

गवा चान्नमुपाघ्रातं घुष्टान्नं च विशेषतः ।
गणान्नं गणिकान्नं च विदुषां च जुगुप्सितम् ॥२०९ ॥