पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ४]
१६१
मन्वर्थमुक्तावलीसंवलिता।

 आचार्यं चेति॥ आचार्यमुपनयनपूर्वकवेदाध्यापकं, प्रवक्तारं वेदार्थव्याख्यातारं, गुरुं 'अल्पं वा बहु वा यस्य' इत्युक्तम् । आचार्यादींस्तु न हिंस्यात् । प्रतिकूलाचरणेऽत्र हिंसाशब्दः । गोविन्दराजस्तु सामान्येन हिंसानिषेधादाततायिनोऽप्येतान्न हिंस्यादिति व्याख्यातावांस्तद्युक्तम् । 'गुरुं वा बालवृद्धौ वा' इत्यनेन विरोधात् ॥ १६२ ॥

नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
द्वेषं दम्भं च मानं च क्रोधं तैष्ण्यं च वर्जयेत् ॥ १६३॥

 नास्तिक्यमिति ॥ नास्ति परलोक इति बुद्धिं, वेदस्य देवतानां च निन्दां, मात्सर्यं धर्मानुत्साहाभिमानकोपक्रौर्याणि त्यजेत् ॥ १६३ ॥

परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैव निपातयेत् ।
अन्यत्र पुत्राच्छिष्याद्वा शिष्ट्यर्थं ताडयेत्तु तौ ॥ १६४ ॥

 परस्य दण्डमिति ॥ परस्य हननार्थं क्रुद्धः सन्दण्डादि नोरिक्षपेत् । नच परमात्रे निपातयेत्पुत्रशिष्ये भार्यादासादेरन्यत्र । कृतापराधानेताननुशासनार्थं 'रज्वा वेणुदलेन वा' इत्यादिवक्ष्यमाणप्रकारेण ताडयेत् ॥ १६४ ॥

ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ।
शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ १६५ ॥

 ब्राह्मणायेति ॥ द्विजातिरपि ब्राह्मणस्य हननार्थं दण्डादिकमुद्यम्यैव नतु निपात्य वर्षशतं तामिस्रादिनरके परिभ्रमति ॥ १६५ ॥

ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् ।
एकविंशतिमाजातीः पापयोनिषु जायते ॥ १६६ ॥

 ताडयित्वा तृणेनापीति ॥ तृणेनापि क्रोधाद्बुद्धिपूर्वकं ब्राह्मणं ताडयित्वा एकविंशतिजन्मानि पापयोनिषु कुक्कुरादियोनिषु जायते ॥ १६६ ॥

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यामृगङ्गतः।
दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः॥ १६७ ॥

 अयुध्यमानस्येति ॥ अयुध्यमानस्य ब्राह्मणस्याङ्गे शास्त्रानभिज्ञतया शोणितमुत्पाद्य परलोके महद्दुःखमाप्नोति ॥ १६७ ॥

शोणितं यावतः पांसून्संगृह्णाति महीतलात् ।
तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ १६८ ॥

 शोणितमिति ॥ खड्गादिहतब्राह्मणाङ्गनिर्गतं रुधिरं भूमिपतितं यावतो धूलिब्द्यणुकान्पिण्डीकरोति तावत्संख्यानि वर्षाणि परलोके शोणितोत्पादकः प्रहर्ता अन्यैः श्वसृगालादिभिर्भक्ष्यते ॥ १६८ ॥