पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [अध्यायः ४ श्रुतिस्मृत्युदितमिति ॥ वेदस्मृतिभ्यां सम्यगुक्तं स्वेषु कर्मस्वध्ययनादिष्वङ्गत्वेन संबद्धं धर्मस्य हेतुं साधूनामाचारमनलसः सन्नितान्तं सेवेतेति सामान्येनाचारा- नुष्ठानोपदेशः फलकथनाय ॥ १५५ ॥ आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः। . आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ १५६ ॥ आचारादिति ॥ आचाराद्वेदोक्तमायुर्लभते, अभिमताश्च प्रजाः पुत्रपौत्रदुहिता- मिकाः, प्रभूतं च धनं, अशुभफलसूचकं च देहस्थमलक्षणमाचारो निष्फलयति । आचाराख्यधर्मेणालक्षणसूचितारिष्टनाशात् ॥ १५६ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः। दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ १५७ ॥ दुराचारो हीति ॥ यमाहुराचारः पुरुषो लोके गर्हितः स्यात्सर्वदा दुःखान्वितो रोगवानल्पायुश्च भवति तस्मात्सदाचारयुक्तः स्यात् ॥ १५७ ॥ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः। श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ १५८ ॥ सर्वलक्षणहीनोऽपीति ॥ यः सदाचारवान्श्रद्धान्वितः परदोषानभिधाता स शुभसूचकलक्षणशून्योऽपि शतायुर्भवति ॥ १५८ ॥ यद्यत्परवशं कर्म तत्तद्यनेन वर्जयेत् । यद्यदात्मवशं तु स्यात्तत्तत्सेवेत यत्नतः॥ १५९ ॥ यद्यत्परेति ॥ यद्यत्कर्म पराधीनं परमार्थनादिसाध्यं तत्तद्यनतो वर्जयेत् । यद्य- स्वाधीनदेहव्यापारसाध्यं परमात्मग्रहादि तत्तद्यनतोऽनुतिष्ठेत् ॥ १५९ ॥ अत्र हेतुमाह- सर्व परवशं दुःखं सर्वमात्मवशं सुखम् । एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ १६० ॥ सर्व परवशमिति ॥ सर्व परप्रार्थनादिसाध्यं दुःखहेतुः । सर्वमात्माधीनं सुखहेतुः । एतत्सुखदुःखयोः कारणं जानीयात् ॥ १६०॥ यत्कर्म कुर्वतोऽस्य स्यात्परितोषोऽन्तरात्मनः । तत्प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ १६१॥ यत्कर्म कुर्वत इति ॥ यत्कर्म कुर्वतोऽस्यानुष्ठातुः पुरुषस्यान्तरात्मनस्तुष्टिः स्या- त्तत्प्रयत्नतोऽनुष्ठेयम् । अतुष्टिकरं वर्जयेत् । एतच्चाविहितानिषिद्धगोचरं वैकल्पिक- विषयं च ॥ १६॥ आचार्य च प्रवक्तारं पितरं मातरं गुरुम् । न हिंसाब्राह्मणान्गाश्च सर्वाश्चैव तपखिनः ॥ १६२ ॥