बहूनि जन्मानि स्मरंस्तेषु च गर्भजन्मजरामरणदुःखान्यपि स्मरन्संसारे विरज्यन्ब्रह्मैवाजस्रमभ्यस्यति श्रवणमननध्यानैः साक्षात्करोति तेन चानन्तमविनाशि परमानन्दाविर्भावलक्षणं मोक्षसुखं प्राप्नोति ॥ १४९ ॥
सावित्राञ्छान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः। |
सावित्रानिति ॥ सावित्रीदेवताकान्होमाननिष्टनिवृत्त्यर्थं च शान्तिहोमान्पौर्णमास्यमावास्ययोः सर्वदा कुर्यात् । तथा आग्रहायण्या ऊर्ध्वे कृष्णाष्टमीषु तिसृषु चाष्टकाख्येन कर्मणा श्राद्धेन च तदन्तरितकृष्णनवमीषु चान्वष्टकाख्येन परलोकगतान्पितॄन्यजेत् ॥ १५० ॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम् । |
दूरादावसथादिति ॥ 'नैर्ऋत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः' इति विष्णुपुराणवचनादेवंविधादग्निगृहस्य दूरान्मूत्रपुरीषपादप्रक्षालनसकलोच्छिष्टान्नानि निषिच्यत इति निषेकं रेतश्चोत्सृजेत् ॥ १५१ ॥
मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् । |
मैत्रमिति ॥ मित्रदेवताकत्वान्मैत्रः पायुस्तद्भवत्वान्मैत्रं पुरीषोत्सर्गम् । तथा देहप्रसाधनं प्रातःस्नानदन्तधावनाञ्जनदेवार्चनादि पूर्वाह्ण एव कुर्यात् । पूर्वाह्णशब्देन रात्रिशेषदिनपूर्वभागाविह विवक्षितौ । पदार्थमात्रविधिपरत्वाच्चास्य पाठक्रमोऽपि नादरणीयः । नहि स्नानानन्तरं दन्तधावनम् ॥ १५२ ॥
दैवतान्यभिगच्छेत्तु धार्मिकांश्च द्विजोत्तमान् । |
दैवतानीति ॥ पाषाणादिमयानि धर्मप्रधानांश्च ब्राह्मणान्नक्षार्थं राजादिकं गुरूंश्च पित्रादीनमावास्यादिपर्वसु द्रष्टुमभिमुखो गच्छेत् ॥ १५३ ॥
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं खकम् । |
अभिवादयेदिति ॥ गृहागतान्गुरूनभिवादयेत्तेषां च स्वीयमासनमुपवेष्टुं च दद्यात् । बद्धाञ्जलिश्च गुरुसमीप आसीत । गच्छतश्च पृष्ठदेशेऽनुगच्छेत् । उक्तोऽप्ययमभिवादनाद्याचारः फलाभिधानाय पुनरुच्यते ॥ १५४ ॥
श्रुतिस्मृत्युदितं सम्यङ्निबद्धं स्वेषु कर्मसु । |