भिरद्भिः प्राणांश्चक्षुरादीनीन्द्रियाणि शिरःस्कन्धजानुपादान्नार्भि च स्पृशेत् । अप्रकरणे चेदं प्रायश्चित्ताभिधानं लाघवार्थं तत्र प्रकरणे गवादिग्रहणमपि कर्तव्यं स्यात् ॥ १४३ ॥
अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः। |
अनातुर इति ॥ अनातुरः सन्स्वानि खानीन्द्रियच्छिद्राणि रोमाणि च गोप्यान्युपस्थकक्षादिगतानि निर्निमित्तं न स्पृशेत् ॥ १४४ ॥
मङ्गलाचारयुक्तः स्यात्प्रयतात्मा जितेन्द्रियः । |
मङ्गलाचारयुक्तः स्यादिति ॥ अभिप्रेतार्थसिद्धिर्मङ्गलं तद्धेतुत्वेन गोरोचनादिधारणमपि मङ्गलम् । गुरुसेवादिकमाचारस्तत्रोद्युक्तः स्यात् । बाह्याभ्यन्तरशौचोपेतो जितेन्द्रियश्च भवेत् । गायत्र्यादिजपं विहितहोमं च नित्यं कुर्यात् । अतन्द्रितोऽनलसः । अत्राचारादीनामुक्तानामपि विनिपातनिवृत्त्यर्थत्वात्पुनरभिधानम् ॥१४५॥
अत आह-
मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् । |
मङ्गलाचारयुक्तानामिति ॥ मङ्गलाचाराभ्यां युक्तानां नित्यं शुचीनां जपहोमरतानां दैवमानुषोपद्रवो न जायते ॥ १४६ ॥
वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः। |
वेदमेवेति ॥ नित्यकृत्यावसरे श्रेयोहेतुतया वेदमेवानलसो जपेत् । यस्मात्तं ब्राह्मणस्य श्रेष्ठं धर्मे मन्वादयो वदन्ति । अन्यः पुनस्ततोऽपकृष्टो धर्मो मुनिभिरुच्यते । उक्तस्यैव वेदाभ्यासादेः पूर्वजातिस्मरणद्वारेण मोक्षहेतुत्वं वदितुं पुनरभिधानम् ॥ १४७ ॥
वेदाभ्यासेन सततं शौचेन तपसैव च । |
वेदाभ्यासेनेति ॥ सततवेदाभ्यासशौचतपोऽहिंसाभिः पूर्वभवस्य जातिं स्मरति ॥ १४८॥
ततः किमत आह-
पौर्विकीं संस्मरञ्जातिं ब्रह्मैवाभ्यसते पुनः । |
पौर्विकीमिति ॥ पूर्वजातिं स्मरन् ।जातिमित्येकत्वमनाकाङ्क्षितत्वादविवक्षितम् ।