पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
[अध्यायः ४
मनुस्मृतिः।

मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ १३१ ॥

 मध्यंदिन इति ॥ दिवारात्रे च संपूर्णे प्रहरद्वये समांसं च श्राद्धं भुक्त्वा प्रातःसायंसंध्ययोश्च चिरं चतुष्पथं नाधितिष्ठेत् ॥ १३ ॥

उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
श्लेष्मनिष्ठन्यूतवान्तानि नाधितिष्ठेत्तु कामतः ॥ १३२॥

 उद्वर्तनमिति ॥ उद्वर्तनमभ्यङ्गमलापकर्षणपिष्टकादि अपस्नानं स्नानोदकं मूत्रपुरीषे रुधिरं च श्लेष्माणं निष्ठ्यूतमश्लेष्मरूपमपि चर्वितपरित्यक्तरूपताम्बूलादि वान्तं भुक्त्वोद्गीर्णनक्तादि एतानि कामतो नाधितिष्ठेत् । अधिष्ठानं तदुपर्यवस्थानम् ॥ १३२॥

वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
अधार्मिकं तस्करं च परस्मैव च योषितम् ॥ १३३ ॥

 वैरिणमिति ॥ शत्रु तन्मन्त्रिणमधर्मशीलं चौरं परदारांश्च न सेवेत। चौरस्याधार्मिकत्वेऽप्यत्यन्तगर्हितत्वात्पृथङ्निर्देशः ॥ १३३ ॥

न हीदृशमनायुष्यं लोके किंचन विद्यते ।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥ १३४ ॥

 न हीदृशमिति ॥ यस्मादीदृशमनायुष्यमिह लोके पुरुषस्य न किंचिदस्ति यादृशं परदारगमनं तस्मादेतन्न कर्तव्यम् ॥ १३४ ॥

क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत वै भूष्णुः कृशानपि कदाचन ॥ १३५ ॥

 क्षत्रियमिति ॥ वृध्द्यर्थे भूधातुः । भूष्णुर्वर्धिष्णुः धनगवादिना वर्धनशील: क्षत्रियं सर्पं बहुश्रुतं च ब्राह्मणं नावजानीयात् । कृशानपि तत्काले प्रतीकाराक्षमान् ॥ १३५॥

एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
तस्मादेतत्त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ १३६ ॥

 एतत्त्रयमिति ॥ एतत्त्रयमवमानितं सदवमन्तारं विनाशयति ।क्षत्रियसर्पौ दृष्टशक्त्या ब्राह्मणश्चाभिचारादिनाऽदृष्टेन । तस्मात्कल्याणबुद्धिरेतत्त्रयं सर्वदा नावजानीयात् ॥ १३६ ॥

नात्मानमवमन्येत पूर्वाभिरसमृद्धिभिः।
आमृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥१३७॥