पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ४] मन्वर्थमुक्तावलीसंवलिता। १५५ पशुमण्डूकेति ॥ पशुर्गवादिः मण्डूकबिडालकुकुरसर्पनकुलमूषकैः शिप्योपा- ध्याययोर्मध्यागमनेऽनध्यायमहोरानं जानीयात् ॥ १२६ ॥ संप्रति विद्यानैपुण्यकामं प्रति पूर्वोक्तानध्यायविकल्पार्थमाह- द्वविव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः। स्वाध्यायभूमिं चाशुद्धामात्मानं चाशुचिं द्विजः॥१२७ ।। हावेवेति ॥ स्वाध्यायभूमि चोच्छिष्टाद्यमेध्योपहतां आत्मानं च यथोक्तशौचर- हितमिति द्वावेवानध्यायौ नित्यं प्रयत्नतो वर्जयेन्न तु पूर्वोक्तान् । तेषामपि यत्र नित्यग्रहणमनुवादो वा नित्यत्वख्यापको वास्ति तानपि नित्यं वर्जयेत् । अन्यत्र विकल्पः ॥ १२७ ॥ अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेनित्यमप्यतौ स्नातको द्विजः ॥ १२८ ॥ अमावास्यामिति ॥ अमावास्यादिप्वृतावपि स्नातको द्विजो न स्त्रियमुपगच्छेत् । 'पर्ववर्ज ब्रजेच्चैनाम्' इत्यनेनैव निषेधसिद्धौ स्नातकव्रतलोपप्रायश्चित्तार्थमिह पुनर्वर्जनम् ॥ १२८ ॥ न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि । न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ १२९ ॥ न स्नानमिति ॥ नित्यस्नानस्य भोजनानन्तरमग्रसक्तेश्चाण्डालादिस्पर्शनित्तकस्य 'मुहूर्तमपि शक्तिविषये नाप्रयतः स्यात्' इत्यापस्तम्बस्मरणान्निषेद्धमयोग्यत्वाद्यह- च्छास्त्रानमिदं भोजनानन्तरं निषिध्यते । तथा रोगी नैमित्तिकमपि स्नानं न कुर्यात् कितु यथासामर्थ्य 'अशिरस्कं भवेत्स्नानं स्नानाशक्तो तु कर्मिणाम् । आर्द्रण वाससा वा स्यान्मार्जनं दैहिकं विदुः' इत्यादिजाबालाद्युक्तमनुसंधेयम् । तथा 'महानिशान विज्ञेया मध्यस्थं प्रहरद्वयम् । तस्मिन्नानं न कुर्वीत काम्यनैमित्तिकाहते' इति देवलवचनात्तत्र न स्नायात् । बहुवासाश्च नित्यं न स्नायात् । नैमित्तिकचाण्डाला- दिस्पर्शे सति तु स्नानं बहुवाससोऽप्यनिषिद्धम् । ग्राहाद्याक्रान्तागाधरूपतया च विशेषेणाज्ञाते जलाशये च ॥ १२९ ॥ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामत्कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ १३०॥ देवतानामिति ॥ देवतानां पाषाणादिमयीनां, गुरोः पित्रादेः, नृपतेः, स्नातक- स्याचार्यस्य च । गुरुत्वेऽप्याचार्यस्य प्राधान्यविवक्षया पृथनिर्देशः । बभ्रुणः कपि- लस्य यज्ञे दीक्षितस्यावभृथस्नानात्पूर्वमिच्छया छायां नाकामेत् । चशब्दाचाण्डा- लादीनामपि । कामत इत्यभिधानादबुद्धिपूर्वके न दोषः ॥ १३० ॥