पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
[अध्यायः ४
मनुस्मृतिः ।

यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः ।
विरमेत्पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ ९७ ॥

 यथाशास्त्रं त्विति ॥ एवमुक्तशास्त्रानुसारेण ग्रामाद्बहिश्छन्दसामुत्सर्गाख्यं कर्म कृत्वा पक्षिणीं रात्रिं विरमेन्नाधीयीत । द्वे दिने पूर्वापरे पक्षाविव यस्या मध्यवर्तिन्या रात्रेः सा पक्षिणी रात्रिः। अस्मिन्पक्षे तूत्सर्गाहोरात्रे द्वितीयदिने चाह्नि नाध्येतव्यं द्वितीयरात्रौ त्वध्येतव्यम् । अथवा तमेवैकमुत्सर्गाहोरात्रमनध्यायं कुर्यात् । विद्यानैपुण्यकामं प्रत्ययमहोरात्रानध्यायविधिः ॥ ९७ ॥

अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ ९८ ॥

 अत ऊर्ध्वमिति ॥ उत्सर्गानध्ययनादूर्ध्वं मन्त्रब्राह्मणात्मकं वेदं शुक्लपक्षेषु संयतः पठेत् । सर्वाणि तु वेदाङ्गानि शिक्षाव्याकरणादीनि कृष्णपक्षेषु पठेत्॥९॥

नाविस्पष्टमधीयीत न शूद्रजनसंनिधौ ।
न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ ९९ ॥

 नाविस्पष्टमिति ॥ स्वरवर्णाद्यभिव्यक्तिशून्यं शूद्रसंनिधौ च नाधीयीत । तथा रात्रेः पश्चिमे यामे सुप्तोत्थितो वेदमधीत्य श्रान्तो न पुनः सुप्यात् ॥ ९९ ॥

यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥१०० ॥

 यथोदितेनेति ॥ यथोक्तविधिना नित्यं छन्दस्कृतं गायत्र्यादिछन्दोयुक्तं मन्त्रमात्रं पठेत् । मन्त्राणामेव कर्मान्तरङ्गत्वात् । अनापदि सम्यक्करणादौ सति ब्रह्म ब्राह्मणं मन्त्रजातं च यथोक्तविधिना युक्तः सन्द्विजः पठेत् ॥ १० ॥

इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥१०१॥

 इमानिति ॥ इमान्वक्ष्यमाणाननध्यायान्सर्वथा यथोक्तविधिनाधीयानः शिष्याध्यापनं च कुर्वाणो गुरुर्वर्जयेत् ॥ १०१ ॥

कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।
एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ १०२ ॥

 कर्णश्रव इति ॥ रात्रौ कर्णश्रवणयोग्यशब्दजनके वायौ वाति । गोविन्दराजस्तु 'कर्णाभ्यामेव श्रवणोपपत्तेरतिशयविवक्षया कर्णश्रव इत्युक्तं, तेनातिशब्दवति वायौ वाति' इत्यभिहितवान् । दिवा च धूलिपटलोत्सारणसमर्थे वायौ वहति एतौ वर्षाकालेऽनध्यायौ तात्कालिकावध्यापनविधिज्ञा मुनयः कथयन्ति ॥ १०२ ॥