पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१४९
मन्वर्थमुक्तावलीसंवलिता।

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥ ९२ ॥

 ब्राह्म इति ॥ ब्राह्मो मुहूर्तो रात्रेः पश्चिमो यामः। ब्राह्मी भारती तत्प्रबोधहेतुत्वात् । मुहूर्तशब्दोऽत्र कालमात्रवचनः। तत्र बुध्येत । दक्षेणापि 'प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् । प्रहरद्वयं शयानो हि ब्रह्मभूयाय कल्पते' इति ब्रुवता तत्र प्रबोधोऽभ्यनुज्ञातः । गोविन्दराजस्तु 'रात्रेः पश्चिमे मुहूर्ते बुध्येत' इत्याह। धर्मार्थौ च परस्पराविरोधेनानुष्ठानार्थमवधारयेत्। तथा धर्मार्थार्जनहेतून्कायक्लेशान्निरूपयेत् । यदि महान्कायक्लेशोऽल्पौ च धर्मार्थो वा तदा तं परिहरेत् । वेदस्य तत्त्वार्थे ब्रह्मकर्मात्मकं निश्चिनुयात् । तस्मिन्समये बुद्धिप्रकाशात् ॥ ९२ ॥

उत्थायावश्यकं कृत्वा कृतशौचः समाहितः।
पूर्वां संध्यां जपंस्तिष्ठेत्स्वकाले चापरां चिरम् ॥ ९३ ॥

 उत्थायेति ॥ तत उषःकाले शय्याया उत्थाय सति वेगे मूत्रपुरीषोत्सर्गं कृत्वात्र कृतवक्ष्यमाणशौचोऽनन्यमनाः पूर्वां संध्यां चिरं गायत्रीजपं कुर्वन्वर्तेतार्कदर्शनात्। अयं विधिः प्रातःसंध्यायामुक्तः । उदयादूर्ध्वमपि जपेदायुरादिकाम इति विधानार्थोऽयमारम्भः । अपरामपि संध्यां स्वकाले प्रारभ्य तारकोदयादूर्ध्वमपि जपन्नासीत ॥ ९३ ॥

 आयुरादिकामाधिकारोऽयमिति दर्शयन्नाह-

ऋषयो दीर्घसंध्यत्वाद्दीर्घमायुरवाप्नुयुः।
प्रज्ञां यशश्च कीर्ति च ब्रह्मवर्चसमेव च ॥ ९४ ॥

 ऋषय इति ॥ संध्याशब्दोऽत्र संध्यानुष्ठेयजपादिपरः । यस्मादृषयो दीर्घसंध्यानुष्ठानाद्दीर्घमायुः जीवन्तः प्रज्ञां यशोऽमृतां च कीर्तिमध्ययनादिसंपन्नं यशश्च पाप्नुयुः । तस्मादायुरादिकामश्चिरं संध्यामुपासीत ॥ ९४ ॥

श्रावण्यां प्रौष्ठपद्यां वाप्युपाकृत्य यथाविधि ।
युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपश्चमान् ॥ ९५ ॥

 श्रावण्यामिति ॥ श्रावणस्य पौर्णमास्यां भाद्रपदस्य वा स्वगृह्यानुसारेणोपाकर्माख्यं कर्म कृत्वा सार्धांश्चतुरो मासान्ब्राह्मण उद्युक्तो वेदानधीय्रीत ॥ ९५ ॥

पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ ९६ ॥

 पुष्ये त्विति ॥ ततः पक्षाधिकेषु चतुर्षु मासेषु यः पुष्यस्तत्र ग्रामाद्बहिर्गत्वा स्वगृह्यानुसारेणोत्सर्याख्यं कर्म कुर्यात् । अथवा माघशुक्लस्य प्रथमेऽहनि पूर्वाह्णे कुर्यात् । माघशुक्ले च विधिः प्रौष्ठपद्यां येनोपाकर्म न कृतं तद्विषयः ॥ ९६ ॥