पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४८ मनुस्मृतिः। [ अध्यायः ४ दशसूनावत्सु यावान्दोषस्तावानेकस्मिन् चक्रवति तैलिके, यावान्दशसु तैलिकेषु दोषस्तावानेकध्वजवति शौण्डिके, यावान्दशसु ध्वजवत्सु दोषस्तावानेकत्र वेश- वति, यावान्दशसु वेशवत्सु दोषस्तावानेकत्र राजनि । उत्तरोत्तरनिन्दा चेयं पूर्व- दातृसंभवे सत्युत्तरवर्जनार्थमपेक्षया योज्यते ॥ ८५ ॥ दश मूनासहस्राणि यो वाहयति सौनिकः। तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ ८६ ॥ दश सूनासहस्राणीति ॥ सूनया चरतीति सौनिकः । एवं संकलनया यत्सौ- निको दशसहस्राणि स्वार्थे व्यापादयति तेन तुल्यो राजा मन्वादिभिः स्मृतः । तसात्तस्यप्रतिग्रहो नरकहेतुत्वाभयानकः क्षत्रियस्यापि च ॥ ८६ ॥ यो राज्ञः प्रतिगृह्णाति लुब्धस्योच्छास्त्रवर्तिनः। स पर्यायेण यातीमानरकानेकविंशतिम् ॥ ८७॥ यो राज्ञ इति ॥ यो राज्ञः कृपणस्य शास्त्रोल्लङ्घनेन प्रवर्तमानस्य प्रतिग्रह करोति स क्रमेणैतान्वक्ष्यमाणैकविंशतिनरकान्गच्छति ॥ ८७ ॥ पूर्वश्लोके सामान्यतो नरकानिमानेकविंशतिमित्युक्तमिदानों तानेव नामतो निर्दिशति-तामिस्रमिति त्रिभिः ॥ तामिस्रमन्धतामिस्रं महारोरवरौरवौ । नरकं कालमुत्रं च महानरकमेव च ॥८८॥ संजीवनं महावीचिं तपनं संप्रतापनम् । संहातं च सकाकोलं कुङ्मलं प्रतिमूर्तिकम् ॥ ८९॥ लोहशङ्कुमृजीषं च पन्थानं शाल्मली नदीम् । असिपत्रवनं चैव लोहदारकमेव च ॥९॥ एतेषां नरकाणां स्वरूपं मार्कण्डेयपुराणादिषु विस्तरेणोक्तं तत्रैवावगन्तव्यम् ॥ ८८ ॥ ८९ ॥ ९० ॥ एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः। न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाटिणः ॥ ९१ ॥ एतद्विदन्त इति ॥ प्रतिग्रहो विविधनरकहेतुरिति जानन्तो ब्राह्मणा धर्मशास्त्र- पुराणादिविदो वेदाध्यायिनो जन्मान्तरे श्रेयःकामवन्तो न राज्ञः प्रतिगृह्णीयुः । विदुषो हि प्रतिग्रहे नातीव दोषः । यतो वक्ष्यति तस्मादविद्वान्बिभीयात्' इति । तेषामपि निषिद्धो राजप्रतिग्रहः प्रचुरप्रत्यवायफलक इति दर्शयितुं विद्वद्हणं ब्रह्मवादिग्रहणं च ॥ ९१ ॥