पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१८०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः ४ आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् । आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ ७६ ॥ आईपाद इति ॥ जलाईपादो भोजनमाचरेत् । नाईपादः सुप्यात् । यस्मादा- ईपादो भुञ्जानः शतायुर्भवति ॥ ७६ ॥ अचक्षुर्विषयं दुर्ग न प्रपद्येत कर्हिचित् । न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदी तरेत् ॥ ७७ ॥ अचक्षुर्विषयमिति ॥ तरुगुल्मलतागहनत्वेनाचक्षुर्गोचरमरण्यादिदेशं दुर्ग नाक्रामेत् । सर्पचौरादेरन्तर्हितस्य संभवात् । पुरीपं मूत्रं च न निरीक्षेत । बाहुभ्यां नदीं न तरेत् ॥ ७७ ॥ अधितिष्ठेन्न केशांस्तु न भस्सास्थिकपालिकाः। न कार्यासास्थि न तुषान्दीर्घमायुर्जिजीविषुः ॥ ७८ ॥ अधितिष्ठेदिति ॥ दीर्घमायुर्जीवितुमिच्छुः केशादीनाधिरोहेत् । भग्नमृन्मयभा- जनशकलानि कपालिकाः ॥ ७८ ॥ न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः। न मूखैर्नावलिप्तैश्च नान्यैर्नान्त्यावसायिभिः॥ ७९ ॥ न संवसेदिति ॥ पतितादिभिमान्तरवासिभिरपि सह न संवसेन् । एकतरु- च्छायादौ न समीपे वसेत् । अतो 'नाधार्मिके वसेद्रामे' इत्यतो भेदः । निषादा- च्छूद्रायां जातः पुल्कसः । वक्ष्यति च 'जातो निषादाच्छूद्रायां जात्या भवति पुल्कसः' इति । अवलिप्ता धनादिमदगर्विताः । अन्त्या अन्त्यजा रजकादयः । अन्त्यावसायिनो निषादस्त्रियां चाण्डालाजाताः। वक्ष्यति च 'निषादस्वी तु चाण्डा- लात्पुत्रमन्त्यावसायिनम् ॥ ७९ ॥ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् । न चास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ॥ ८० ॥ न शूद्रायेति ॥ शूद्राय मतिं दृष्टार्थोपदेशं न दद्यात् । धर्मोपदेशस्य पृथड्दैि- शात्। अदासशूद्रायोच्छिष्टं न दद्यात् । दासगोचरतया 'उच्छिष्टमन्नं दातव्यम्' इति वक्ष्यमाणत्वाददोषः । द्विजोच्छिष्टं च भोजनमिति भोक्तुर्विधितुरुच्छिष्टदान- निषेधेऽपि यथासंभवलब्धविषयः । हविष्कृतमिति । यस्यैकदेशो हुतः स हविः- शेषो न दातव्यः । धर्मोपदेशो न शूद्रस्य कर्तव्यः । व्रतं चास्य प्रायश्चित्त- रूपं साक्षान्नोपदिशेत्, किंतु ब्राह्मणं मध्ये कृत्वा तदुपदेशव्यवधानात् । यथाहा- गिराः-'तथा शूद्रं समासाद्य सदा धर्मपुरःसरम् । अन्तरा ब्राह्मणं कृत्वा प्रायश्चित्तं समादिशेत्' । प्रायश्चित्तमिति सकलधर्मोपदेशस्योपलक्षणार्थम् ॥८॥