पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


ध्यायः ४] मन्वर्थमुक्तावलीसंवलिता। १४५ स्तम्बवचनान्निष्प्रयोजनं मृल्लोष्टमर्दनं नखैश्च तृणच्छेदनं न कुर्यात् । ननु 'न कुर्वीत थाचेष्टाम्' इत्यनेनैवास्यापि प्रतिषेधसिद्धौ दोपभूयस्त्वं प्रायश्चित्तगौरवं च दर्शयि- विशेषेण निषेधः । अत एवात्रानन्तरं लोष्टमर्दीति निन्दिप्यति । दृष्टादृष्टफल- न्यं च कर्म न कुर्यात् । ननु 'न कुर्वीत वृथाचेष्टाम्' इत्यनेन पुनरुक्तिः । उच्यते। हव्यापारश्चेष्टा स वृथाचेष्टाशब्देन निषिद्धः, अनेन तु निष्फलं मनोग्राह्यादिसंक- पात्मकं कर्म मानसं निषिध्यते । यच्च आयत्यामागामिकाले कर्मासुखावहं थिाऽजीणे भोजनादि तदपि न कुर्यात् ॥ ७० ॥ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः। स विनाशं व्रजत्याशु मूचकोऽशुचिरेव च ॥ ७१ ॥ लोष्टमर्दीति ॥ लोष्ठमर्दयिता तृणच्छेत्ता नखखादिता च यो मनुष्यस्तथा चूचकः खलो यः परस्य दोषानसतः सतो वा ख्यापयति बाह्याभ्यन्तरशौचरहितः शीघ्रमेते देहधनादिना विनश्यन्ति ॥ ७१ ॥ न विगद्य कथां कुर्याद्वहिर्माल्यं न धारयेत् । गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ ७२ ॥ न विगी कथामिति ॥ न चाभिनिवेशेन कथां शास्त्रीयेप्वर्थेषु लौकिकेषु वा कुर्यात्, केशकलापाद्वहिर्माल्यं न धारयेत् । गवां च पृष्ठेन यानं सर्वथेति प्रवेण्या- दिव्यवधानेनाप्यधर्मावहम् । पृष्ठेनेत्यभिधानादाकृष्टशकटादिना न दोषः ॥ ७२ ॥ अद्वारेण च नातीयाद्रामं वा वेश्म वावृतम् । रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ ७३ ॥ अद्वारेण चेति ॥ प्राकाराद्यावृतं गृहं च द्वारव्यतिरिक्तप्रदेशेन प्राकारादिलङ्घनं कृत्वा न विशेत् । रात्रौ च वृक्षमूलावस्थानं दूरतस्त्यजेत् ॥ ७३ ॥ नाक्षैः क्रीडेत्कदाचित्तु स्वयं नोपानहौ हरेत् । शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ ७४ ॥ नाक्षैरिति ॥ ग्लहं विना कदाचिदपि परिहासेनापि नाक्षादिभिः क्रीडेत् । स्वय- मित्यभिधानादात्मोपानही पादव्यतिरिक्तेन हस्तादिना देशान्तरं न नयेत् । श- य्याद्यवस्थितश्च न भुञ्जीत । हस्ते च प्रभूतमन्नं कृत्वा क्रमेण न खादेत् । आसने भोजनपात्रं निधाय न भुञ्जीत ॥ ७४ ॥ सर्व च तिलसंबद्धं नाबादस्तमिते रखो । न च नमः शयीतेह न चोच्छिष्टः क्वचिद्वजेत् ॥ ७५ ॥ सर्वमिति ॥ यत्किंचित्तिलसंमिश्रं कृसरमोदकादि तदस्तमितेऽ: नाद्यात् । उप- स्थाच्छादनवासोरहितो नेह लोके सुप्यात् । उच्छिष्टस्तु नान्यतो गच्छेत् ॥७५॥ मनु० १३