नान्नमद्यादिति ॥ एकवस्त्रो नान्नं भुञ्जीत । उपस्थाच्छादनवासोरहितो न स्नायात्। मृत्रग्रहणमधःकायमलविसर्गोपलक्षणार्थम् । तेन मूत्रपुरीषे वर्त्मनि, भस्मनि, गोष्ठे च न कुर्यात् ॥ ४५ ॥
न फालकृष्टे न जले न चित्यां न च पर्वते । |
न फालकृष्ट इति ॥ तथा फालकृष्टे क्षेत्रादावुदके, अग्न्यर्थकृतेष्टकाचये, पर्वते, चिरन्तनदेवतागारे, कृमिकृतमृत्तिकाचये च विण्मूत्रोत्सर्गं न कदाचन कुर्यात् ॥४६॥
न ससत्वेषु गर्तेषु न गच्छन्नापि च स्थितः। |
न ससत्वेष्विति ॥ तथा सप्राणिषु बिलेषु न व्रजन्न चोत्थितो न नदीतटमाश्रित्य नापि पर्वतशृङ्गे मूत्रपुरीषे कुर्यात् । पर्वतनिषेधादेव तच्छृङ्गनिषेधे सिद्धे पुनः पर्वतशृङ्गनिषेधस्तदितरपर्वते विकल्पार्थः । तत्रेच्छाविकल्पस्यान्यथापि प्राप्तौ सामान्यनिषेधवैयर्थ्याद्व्यवस्थितोऽत्र विकल्पः । अत्यन्तार्तस्य पर्वते न दोषः ॥ ४७ !!
वाय्वग्निविप्रमादित्यमपः पश्यंस्तथैव गाः। |
वाय्वग्निविप्रमिति ॥ वायुमग्निं, ब्राह्मणं, सूर्यं, जलं, गां च पश्यन्न कदापि मूत्रपुरीषोत्सर्गं कुर्यात् । वायोररूपत्वेन दर्शनासंभवे वात्याप्रेरिततृणकाष्टादिनिषेधोऽयम् ॥ ४८ ॥
तिरस्कृत्योच्चरेत्काष्ठलोष्ठपत्रतृणादिना । |
तिरस्कृत्योच्चरेदिति ॥ अन्तर्धाय काष्ठादीनि भूमिमवागनुच्छिष्टः प्रच्छादिताङ्गोऽवगुण्ठितशिरा मूत्रपुरीषोत्सर्गं कुर्यात् । 'शुष्कैस्तृणैर्वा काष्ठैर्वा पर्णैर्वेणुदलेन वा । मृन्मयैर्भाजनैर्वापि अन्तर्धाय वसुंधराम्' इति वायुपुराणवचनात् । शुष्कानि काष्ठपत्रतृणानि ज्ञेयानि ॥ ४२ ॥
मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः । |
मूत्रोच्चारसमुत्सर्गमिति ॥ मूत्रपुरीषोत्सर्गमहनि संध्यायां चोत्तराभिमुखो रात्रौ चेद्दक्षिणामुखः कुर्यात् । धरणीधरस्तु 'स्वस्थोऽनाशाय चेतसः' इति चतुर्थपादं पठित्वा चेतसो बुद्धेरनाशायेति व्याख्यातवान् । 'परंपरीयमाम्नायं हित्वा विद्वद्भिरादृतम् । पाठान्तरं व्यरचयन्मुधेह धरणीधरः ॥ ५० ॥
छायायामन्धकारे वा रात्रावहनि वा द्विजः। |