पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
[अध्यायः ४
मनुस्मृतिः।

 न लङ्घयेदिति ॥ वत्सबन्धनरज्जुं न लङ्घयेत् । वर्षति मेघे न धावेत् । नच स्वदेहप्रतिबिम्बं जले निरीक्षेतेति शास्त्रे निश्चयः ॥ ३८॥

मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ ३९॥

 मृदमिति ॥ प्रस्थितः सन् संमुखावस्थितानुद्धृतमृत्तिकागोपाषाणादिदेवताब्राह्मणधृतक्षौद्रचतुष्पथमहाप्रमाणज्ञातवृक्षान्दक्षिणहस्तमार्गेण कुर्यात् । प्रदक्षिणानीति नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्' इति नपुंसकत्वम् ॥ ३९ ॥

नोपगच्छेत्प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
समानशयने चैव न शयीत तया सह ॥४०॥

 नोपगच्छेदिति ॥ प्रमत्तः कामार्तोऽपि रजोदर्शने निषिद्धस्पर्शदिनत्रये स्त्रियं नोपगच्छेत् । स्पर्शनिषेधेनैव तासामाद्याश्चतस्र इति निषेधसिद्धौ प्रायश्चित्तगौरवार्थं स्नातकव्रतत्वार्थं च पुनरारम्भः। न चागच्छन्नपि तया सहैकशय्यायां सुप्यात् ॥ ४० ॥

रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥४१॥

 रजसाभिप्लुतामिति ॥ यस्माद्रजस्वलां स्त्रियं पुरुषस्योपगच्छतः प्रज्ञावीर्यबलचक्षुरायूंषि नश्यन्ति तस्मात्तां नोपगच्छेत् ॥ ४१ ॥

तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ ४२ ॥

 तामिति ॥ तां तु रजस्वलामगच्छतस्तस्य प्रज्ञादयो वर्धन्ते । तस्मात्तां नोपेयात् ॥ ४२ ॥

नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥४३॥

 नाश्नीयादिति ॥ भार्यया सहैकपात्रे नाश्नीयात् । एनां च भुञ्जानां क्षुतं जृम्भां च कुर्वतीं यथासुखं निर्यन्त्रणप्रदेशावस्थितां च नेक्षेत ॥ ४३ ॥

नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
न पश्येत्प्रसवन्तीं च तेजस्कामो द्विजोत्तमः॥४४॥

 नाञ्जयन्तीमिति ॥ तथा स्वनेत्रयोरञ्जनं कुर्वतीं तैलाद्यभ्यक्तां अनावृतां स्तनावरणरहितां नतु नग्नाम् । 'नग्नां नेक्षेत च स्त्रियम्' इति वक्ष्यमाणत्वात् । अपत्यं च प्रसवन्तीं ब्राह्मणो न निरीक्षेत ॥ ४४ ॥

नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
न मूत्रं पथि कुर्वीत न भसनि न गोव्रजे ।। ४५ ॥