पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३५
मन्वर्थमुक्तावलीसंवलिता।
अध्यायः ४]

बहुभृत्यस्यान्नसंभवे 'षट्कर्मैको भवत्येषाम्' इति विहितत्वात् । अथवैकवाक्यतावगमाद्व्रतविधायकत्वाच्चान्यतमया वृत्त्येत्यनुवादकत्वादेकत्वमविवक्षितम् । उक्तत्तीनामन्यतमया वृत्त्या जीवन्स्नातको ब्राह्मण इमानि वक्ष्यमाणानि यथासंभवं स्वर्गायुर्यशसां हितानि व्रतानि कुर्यात् । इदं मया कर्तव्यमिदं न कर्तव्यमित्येवंविधिसंकल्पविशेषाद्व्रतम् ॥ १३ ॥

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः।
तद्धि कुर्वन्यथाशक्ति प्राप्नोति परमां गतिम् ॥ १४ ॥

 वेदोदितमिति ॥ वेदोक्तं स्मार्तमपि वेदमूलत्वाद्वेदोक्तमेव । स्वकं स्वाश्रमोक्तं यावज्जीवमतन्द्रितोऽनलसः कुर्यात् । हि हेतौ। यस्मात्तत्कुर्वन्यथासामर्थ्यं परमां गतिं मोक्षलक्षणां प्राप्नोति । नित्यकर्मानुष्ठानात्पापक्षये सति निष्पापान्तःकरणेन ब्रह्मसाक्षात्कारान्मोक्षावाप्तेः । तदुक्तं मोक्षधर्मे-'ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । तत्रादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ॥' आत्मन्यन्तःकरणे ॥१४॥

नेहेतार्थान्प्रसङ्गेन न विरुद्धेन कर्मणा ।
न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ १५ ॥

 नेहेतार्थानिति ॥ प्रसज्यते यत्र पुरुषः स प्रसङ्गो गीतवादित्रादिस्तेनार्थान्नार्जयेत् । नापि शास्त्रनिषिद्धेन कर्मणायाज्ययाजनादिना च । नच विद्यमानेषु धनेषु । नचाप्यविद्यमानेष्वपि प्रकारान्तरसंभवे यतस्ततः पतितादिभ्योऽपि ॥ १५ ॥

इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ १६ ॥

 इन्द्रियार्थेष्विति ॥ इन्द्रियाणामर्था रूपरसगन्धस्पर्शादयस्तेषु निषिद्धेप्वपि स्वदारसुरतादिषु न प्रसज्येत नातिप्रसक्तिमत्यन्तसेवनात्मिकां कुर्यात् । कामत उपभोगार्थम् । अतिप्रसक्तिनिवृत्त्युपायमाह अतिप्रसक्तिमिति ॥ विषयाणामस्थिरत्वस्वर्गापवर्गात्मकश्रेयोविरोधित्वादिभावनया मनसा सम्यङ् निवर्तयेत् ॥ १६ ॥

सर्वान्परित्यजेदर्थान्स्वाध्यायस्य विरोधिनः।
यथातथाध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ १७ ॥

 सर्वानिति ॥ वेदार्थविरोधिनोऽर्थानत्यन्तेश्वरगृहोपसर्पणकृषिलोकयात्रादयस्तान्सर्वान्परित्यजेत् । कथं तर्हि भृत्यात्मपोषणमित्याशङ्क्याह - यथातथा केनाप्युपायेन स्वाध्यायाविरोधिना भृत्यात्मानौ जीवयन् यस्मात्सास्य स्नातकस्य कृतकृत्यता कृतार्थता यन्नित्यं स्वाध्यायपरता ॥ १७ ॥

वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
वेषवाग्बुद्धिसारूप्यमाचरन्विचरेदिह ॥ १८ ॥

 वयस इति ॥ वयसः क्रियाया धनस्य श्रुतस्य कुलस्यानुरूपेण वेषवाग्बुद्धीरा-