उच्छेषणमिति ॥ तद्ब्राह्मणोच्छिष्टं तावत्कालं तिष्ठेत् यावद्ब्राह्मणानां विसर्जनं ब्राह्मणेषु तु निर्गतेषु मार्ष्टव्यमित्यर्थः। ततः संपन्ने श्राद्धकर्मणि वैश्वदेवबलिहोमकर्मनित्यश्राद्धातिथिभोजनानि कर्तव्यानि । बलिशब्दस्य प्रदर्शनार्थत्वात् । अतएव मत्स्यपुराणे-'निवृत्त्य प्रतिपत्त्यर्थं पर्युक्ष्याग्निं च मन्त्रवित् । वैश्वदेवं प्रकुर्वीत नैत्यकं विधिमेव च' इति ॥ २६५ ॥ यैश्चान्नैरिति पूर्वमुक्तमपि व्यवधानादबुद्धिस्थं शिष्यसुखप्रतिपत्तये पुनर्वक्तव्यतया प्रतिजानीते-
हविर्यच्चिररात्राय यच्चानन्त्याय कल्प्यते । |
हविरिति ॥ चिररात्रायपदमव्ययं चिरकालवाचि । अतएव 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्याभिधानिकाः । यद्यद्धविः पितृभ्यो यथाविधि दत्तं चिरकालतृप्तयेऽनन्ततृप्तये च संपद्यते तन्निःशेषेणाभिधास्यामि ॥ २६६ ॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा । |
तिलैरिति ॥ तिलधान्ययवमाषजलमूलफलानामन्यतमेन यथाशास्त्रं श्रद्धया दत्तेन मनुष्याणां मासं पितरस्तृप्यन्ति । 'कृष्णा मापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः' इति वायुपुराणवचनान्माषैरिति कृष्णमाषा बोद्धव्याः ॥ २६७ ॥
द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु । |
द्वाविति ॥ पाठीनादिमत्स्यानां मांसेन द्वौ मासौ पितरः प्रीयन्त इति पूर्वेण संबन्धः । त्रीन्मासान्हारिणेन मांसेन, चतुरो मेषमांसेन, पञ्च द्विजातिभक्ष्यपक्षिमांसेन ॥ २६८ ॥
षण्मासांश्छागमांसेन पार्षतेन च सप्त वै । |
षण्मासानिति ॥ षण्मासांश्छागमांसेन प्रीयन्ते, पृषतश्चित्रमृगस्तन्मांसेन सप्त, एणमांसेनाष्टौ, रुरुमांसेन नव । एणरुरू हरिणजातिविशेषौ ॥ २६९ ॥
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । |
दशेति ॥ दशमासानारण्यसूकरमहिषमांसैस्तृप्यन्ति, एकादश शशकच्छपमांसेन ॥ २७० ॥
संवत्सरं तु गव्येन पयसा पायसेन च । |