पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[अध्यायः३
मनुस्मृतिः।

दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
श्रद्धा च नो माव्यगमद्बहुदेयं च नोऽस्त्विति ॥ २५९ ॥

 दातार इति ॥ अस्मत्कुले दातारः पुरुषा वर्धन्ताम् । वेदाश्चाध्ययनाध्यापनतदर्थबोधतदर्थयागाद्यनुष्टानैर्वृद्धिमाप्नुवन्तु । पुत्रपौत्रादिकं च वर्धताम् । वेदार्थश्रद्धा चास्मन्कुले न व्यपैतु । दातव्यं च धनादिकं बहु भवतु ॥ २५९ ॥

एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ २६० ॥

 एवमुक्तप्रकारेण पिण्डानां प्रदानं कृत्वा प्रकृतवरयाचनानन्तरं तान्पिण्डान् गां ब्राह्मणं छागं वा भोजयेत् , अग्नौ जले वा क्षिपेत् ॥ २६० ॥

पिण्डनिर्वपणं केचित्पुरस्तादेव कुर्वते ।
वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ २६१ ॥

 पिण्डेति ॥ पिण्डप्रदानं केचिदाचार्याः ब्राह्मणभोजनानन्तरं कुर्वते । अन्ये पक्षिभिः पिण्डान्खादयन्ति । इयं च पक्षिभोजनरूपा प्रतिपत्तिरग्न्युदकप्रक्षेपयोर्वैकल्पिकीति दर्शयितुमुक्तयोरप्यभिधानम् ॥ २६१ ॥

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥२६२ ॥

 पतिव्रतेति ॥ धर्मार्थकामेषु मनोवाक्कायकर्मभिः पतिरेव मया परिचरणीय इति व्रतं यस्याः सा पतिव्रता धर्मपत्नी सवर्णा प्रथमोढा श्राद्धक्रियाणां श्रद्धाशालिनी पुत्रार्थिनी तेषां पिण्डानां मध्यमं पितामहपिण्डं भक्षयेत् सम्यक् 'आधत्त पितरो गर्भम्' इत्यादिगृह्योक्तमन्त्रेण ॥ २६२ ॥

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ २६३॥

 आयुष्मन्तमिति ॥ तेन पिण्डभक्षणेन दीर्घायुषं कीर्तिधारणात्मकबुद्धियुक्तं धनपुत्रादिसंततिधर्मानुष्ठानसत्त्वाख्यगुणान्वितं पुत्रं जनयति ॥ २६३ ॥

प्रक्षाल्य हस्तावाचम्य ज्ञातिप्राय प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ २६४॥

 प्रक्षाल्येति ॥ तदनु हस्तौ प्रक्षाल्य ज्ञातिप्रायमन्नं कुर्यात् । ज्ञातीन्पैति गच्छतीति ज्ञातिप्रायम् । कर्मण्यण् । ज्ञातीन्भोजयेदित्यर्थः । तेभ्यः पूजापूर्वकमन्नं दत्त्वा मातृपक्षानपि सार्हणं भोजयेत् ॥ २६४ ॥

उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः।
ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः॥२६५ ॥