पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। १२५ पित्र्ये इति ॥ पित्र्ये निरपेक्षपितृमातृदेवताक एकोदिष्टश्राद्धे तृशिश्नार्थ स्त्रदितमिनि शच्यम् । तथाच गोभिलसांख्यायनौ स्वदितमिति तृतिप्रश्नः । मेधातिथिगोविन्दराजौ तु श्राद्धकालागतेनान्येनापि स्वदितमित्येव कर्तव्यमिति व्याचक्षतुः । 'श्राद्धे स्वदितमित्येतद्वाच्यमन्येन केनचित् । नानुरुद्धमिदं विबुद्धैर्न श्रद्दधीमहि । गोष्टे गोष्टीश्राद्धे सुश्रुतमिति वाच्यम्। 'गोट्यां शुद्ध्यर्थमष्टमम्' इति द्वादशविधश्राद्धगणनायां गोष्टीश्राद्धमपि विश्वामित्रेण पठितम् । अभ्युदये वृद्धिश्राद्धे संपनमिति वाच्यम् । देवे देवतोद्देशेन श्राद्धे रुचितमिति वचनीयम् । दैवश्राद्धं तु भविष्यपुराणोक्तम्-'देवानुद्दिश्य यच्छ्राद्धं तत्तु दैविकमुच्यते । हनि- प्येण विशिष्टेन सप्तम्यादिपु यत्नतः' ॥ २५४ ॥ अपराह्नस्तथा दर्भा वास्तुसंपादनं तिलाः। सृष्टिदृष्टिर्द्विजाचाय्याः श्राद्धकर्मसु संपदः ॥ २५५ ॥ अपराह्न इति ॥ अमावस्याश्राद्धस्य प्रकृतत्वात्तद्विषयोऽयमपराह्नकालः 'प्रात…- द्विनिमित्तकम्' इत्यादिना वृद्धिश्राद्धादौ स्मृत्यन्तरे प्रातःकालादिविधानात् । विष्टराधर्था दर्भाः, गोमयादिना श्राद्धदेशसंशोधनं, तिलाश्च विकिरणाद्यर्थाः, सृष्टिरकार्पण्येनान्नादिविसर्गः, मृष्टिरनादेश्च संस्कारविशेषः, पङ्गिपावनादयश्च ब्राह्मणाः, एताः श्राद्धे संपत्तय इत्यभिधानादङ्गान्तरापेक्षं प्रकृष्टत्वमेपां बो- धितम् ॥ २५५॥ दर्भाः पवित्रं पूर्वाह्रो हविष्याणि च सर्वशः। पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ २५६ ॥ दर्भा इति ॥ पवित्रं मन्त्राः, पूर्वाह्नः कालः, हविष्याणि मुन्यन्नादीनि सर्वाणि च, यच्च पवित्रं पावनं वास्तुसंपादनादि पूर्वमुक्तं एताश्च देवार्थस्य कर्मणः समृ- द्धयः । हव्यशब्दो दैवकर्मोपलक्षणार्थः ॥ २५६ ॥ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । अक्षारलवणं चैव प्रकृत्या हविरुच्यते ॥ २५७ ॥ मुन्यज्ञानीति ॥ मुनेर्वानप्रस्थस्यान्नानि नीवारादीनि, पयः क्षीरं, सोमलतारसः, अनुपस्कृतमविकृतं पूतिगन्धादिरहितं मांसम् , अक्षारलवणमकृत्रिमलवर्ण सैन्ध- वादि, एतत्स्वभावतो हविर्मन्वादिभिरभिधीयते ॥ २५७ ॥ विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः। दक्षिणां दिशमाकान्याचेतेमान्वरान्पितॄन् । २५८ ॥ विसृज्येति ॥ ज्ञान्ब्राह्मणान्विसृज्यानन्यमनाः मौनी पवित्रो दक्षिणां दिशं वीक्षमाण एतान्वक्ष्यमाणानभिलषितानर्थापितॄत्प्रार्थयेत् ॥ २५८ ॥