पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१२४
[ अध्यायः ३
मनुस्मृतिः।

द्दिष्टं सपिण्डीकरणे कृते पुनरनयैवावृतेति भेदनिर्देशो न स्यात्। ततोऽमावास्येति कर्तव्यतैव प्रतीयते ॥ २४८ ॥

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रमवाक्शिराः॥२४९ ॥

 श्राद्धमिति ॥ आश्रितशूद्रायोच्छिष्टदानप्रसक्तावयं निषेधः। श्राद्धभोजनोच्छिष्टं यः शूद्राय ददाति स मूर्खः कालसूत्रं नाम नरकमधोमुखं गच्छति ॥ २४९

श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति ।
तस्याः पुरीषे तन्मासं पितरस्तस्य शेरते ॥ २५० ॥

 श्राद्धेति ॥ वृषलीशब्दोऽत्र स्त्रीपर इत्याहुः । निरुक्तं च 'कुर्वन्ति वृषस्यन्ती चपलयति भर्तारमिति वृषली ब्राह्मणस्य परिणीता ब्राह्मण्यपि वृषलीति' । श्राद्धं भुक्त्वा तदहोरात्रे यः स्वीसंप्रयोगं करोति तस्य पितरस्तस्याः पुरीषे मासं शेरत इति निवृत्त्यर्था निन्दा ॥ २५० ॥

पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः।
आचान्तांश्चानुजानीयादभि भो रम्यतामिति ॥ २५१॥

 पृष्ट्वेति ॥ तृप्तान्ब्राह्मणान्बुध्वा स्वदितमिति पृष्ट्वा तेषामाचमनं कारयेत् । कृताचमनांश्च भो इति संबोध्याभिरम्यतामिति ब्रूयात् । अभित इति पाठे अभित उभयत इह वा स्वगृहे वास्यतामित्यर्थः ॥ २५१ ॥

स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
स्वधाकारः परा ह्याशीः सर्वेषु पितृकर्मसु ॥ २५२ ॥

 स्वधेति ॥ अनुज्ञानानन्तरं ब्राह्मणाः श्राद्धकर्तारं स्वधास्तु इति ब्रूयुः । यस्मात्सर्वेषु श्राद्धतर्पणादिपितृकर्मसु स्वधाशब्दोच्चारणं प्रकृष्टा आशीः ॥ २५२ ॥

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ २५३ ॥

 तत इति ॥ स्वधाशब्दोच्चारणानन्तरं कृतभोजनानां ब्राह्मणानां शेषमन्नमप्यस्तीत्यवशिष्टमन्नं निवेदयेत् । तैर्ब्राह्मणैरिदमनेनान्नेन क्रियतामित्यनुज्ञातो यथा ते ब्रूयुस्तथान्नशेषविनियोगं कुर्यात् ॥ २५३ ॥  इदानीं प्रसङ्गाच्छ्राद्धान्तरेषु विशेषविधिमाह-

पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुश्रुतम् ।
संपन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ २५४ ॥