पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अध्यायः ३]
१२३
मन्वर्थमुक्तावलीसंवलिता।

 ब्राह्मणमिति ॥ ब्राह्मणमतिथिरूपं अन्यं वा भक्षणशीलं भोजनार्थं तत्कालोपस्थितं श्राद्धपात्रब्राह्मणैरनुज्ञातो यथाशक्त्यन्नभोजनेन भिक्षादानेन चाहयेत् २४३

सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा ।
समुत्सृजेद्भुक्तवतामग्रतो विकिरन्मुवि ॥ २४४ ॥

 सार्वेति ॥वर्णशब्दः प्रकारवाची। सर्वप्रकारकमन्नादिकं व्यञ्जनादिभिरेकीकृत्योदकेनाप्लावयित्वा कृतभोजनानां ब्राह्मणानां पुरतो भूमौ 'दर्भेषु विकिरश्च यः' इति वक्ष्यमाणत्वाद्दर्भोपरि निक्षिपेत्त्यजेत् ॥ २४४ ॥

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्यादर्भेषु विकिरश्च यः ॥ २४५ ॥

असंस्कृतेति ॥ 'नास्य कार्योऽग्निसंस्कारः' इति निषेधात्संस्कारानहबालानां तथा कुलस्त्रीणामदृष्टदोषाणां ये त्यक्तारस्तेषां पात्रस्थमुच्छिष्टं दर्भेषु च यो विकिरः स भागः स्यात् । अन्ये तु त्यागिनामिति गुर्वोदित्यागिनां, कुलयोषितामिति स्वात- च्येण तु कुलयोषितामनूढकन्यानामिति व्याचक्षते । गोविन्दराजस्तु त्यागिनां कुल- योषितामिति सामान्योपक्रमादिदं विशेषाभिधानं 'संस्कृतं भक्षाः' इतिवत्ततः स्वकुलं त्यक्त्वा गतानां कुलस्त्रीणामित्याह ॥ २४५ ॥ उच्छेषणं भूमिगतमजिमस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ २४६ ॥ उच्छेषणमिति ॥ उच्छिष्टं यद्भूमिगतं तद्दाससमूहस्यावक्रस्यानलसस्याकुटि- लस्य च पित्र्ये श्राद्धकर्मणि भागधेयं मन्वादयो वदन्ति ॥ २४६ ॥ आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ॥ २४७ ॥ आसपिण्डेति ॥मर्यादायामाङ् नाभिविधौ। सपिण्डीकरणश्राद्धपर्यन्तमचिरम- नातेश्च वैश्वदेवब्राह्मणभोजनरहितं श्राद्धार्थमन्नं ब्राह्मणं भोजयेत्, एकं च पिण्डं दद्यात् । अस्य च श्राद्धानुष्ठानम् ‘एकोद्दिष्टं दैवहीनमेका(कपवित्रकम् । आ- वाहनाग्नौकरणरहितं यपसव्यवत्'इति याज्ञवल्क्यादिस्मृतिष्ववगन्तव्यम् ॥२४७॥ सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवाढता कार्य पिण्डनिर्वपणं सुतैः ॥ २४८ ॥ सहेति ॥ अस्येति यस्येदमेकोद्दिष्टं विहितं तस्य धर्मतः स्वगृह्यादिविधिना सपि- ण्डीकरणश्राद्धे कृते अनयैवावृता उक्तामावास्याश्राद्धेतिकर्तव्यतया पिण्डनिर्वपणं पार्वणविधिना श्राद्धं पुत्रैः सर्वत्र मृताहादौ कर्तव्यम् । नन्वनयैवावृतेत्यनेन प्रक- तमेकोद्दिष्टमेव हि किमिति न परामृश्यते । उच्यते । तर्हि सपिण्डीकरणात्पूर्वमेको तस्य