पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
[अध्यायः३
मनुस्मृतिः।

यावदुष्णं भवत्यनं यावदश्नन्ति वाग्यताः।
पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २३७ ।।

 यावदिति ॥ यावदन्ने उष्णता भवति, यावच्च मौनिनो भुञ्जते, यावच्च हविर्गुणानोच्यन्ते तावत्पितरोऽश्नन्तीति पूर्वोक्तस्यैवार्थस्य प्रशंसा ॥ २३७ ॥

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः।
सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते ॥ २३८ ॥

 यदिति ॥ वस्त्रादिवेष्टितशिरा यदन्नं भुते, तथा दक्षिणामुखः, सपादुकश्च तद्राक्षसा भुञ्जते न पितरः । तस्मादेवंरूपं न कर्तव्यम् ॥ २३८ ॥

चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश्च नेक्षेरन्नश्नतो द्विजान् ॥ २३९ ॥

 चाण्डाल इति ॥ चाण्डालग्राम्यसूकरकुक्कुटकुक्कुरोदक्यानपुंसका यथा ब्राह्मणान्भोजनकाले न पश्येयुस्तथा कार्यम् ॥ २३९ ॥

होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ।
दैवे कर्मणि पित्र्ये वा तद्गच्छत्ययथातथम् ॥ २४० ॥

 होम इति ॥ यस्माद्धोमेऽग्निहोत्रादौ, प्रदाने गोहिरण्यादौ, भोज्ये स्वाभ्युदयार्थ ब्राह्मणभोजने, दैवे हविषि दर्शपौर्णमासादौ, पित्र्ये श्राद्धादौ, यदेभिर्वीक्ष्यते क्रियमाणं कर्म तद्यदर्थे क्रियते तन्न साधयति ॥ २४० ॥

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः॥ २४१ ॥

 घ्राणेनेति॥ सूकरस्तदन्नादेर्गन्धं घ्रात्वा कर्म निष्फलं करोति तस्मादन्नघ्राणयोग्यदेशान्निरसनीयः । कुक्कुटः पक्षवातेन सोऽपि पक्षपवनयोग्यदेशादपगमनीयः । श्वा दर्शनेन शुनोऽन्नादिदर्शनं निषिद्धमपि दोषभूयस्त्वज्ञापनार्थं पुनरभिहितम् । अथवा दृष्टिनिपातेनेति श्राद्धकर्तृभोक्तॄणां दृष्टिनिपातविषयत्वेन । अवरवर्णः शूद्रस्तस्माज्जातोऽवरवर्णजः शूद्र एव । असावन्नादिस्पर्शेन द्विजातिश्राद्धं निष्फलयति ॥ २४१ ॥

खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ २४२ ॥

 खञ्जो वेति ॥ यदि गतिविकलः काणो वा दातुर्दासः शूद्रस्तस्यैव प्रेष्यत्वविधानात् । अपिशब्दादन्योऽपि शूद्रो न्यूनाधिकाङ्गुल्यादिर्वा स्यात्तदा तमपि ततः श्राद्धदेशादपसारयेत् ॥ २४२ ॥

ब्राह्मणं भिक्षुकं वापि भोजनार्थमुपस्थितम् ।
ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ।। २४३ ॥