अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान् । |
अक्रोधेति ॥ क्रोधशून्यान्सुप्रसादान्प्रसन्नमुखान्प्रवाहानादितया पुरातनान् 'अग्नौ प्रास्ताहुतिः' इति न्यायेन लोकवृद्धय उद्युक्तान्श्राद्धपात्रभूतान्मन्वादयो वदन्ति । तस्माद्देवतुल्यत्वाच्छ्राद्धं ब्राह्मणस्य तद्धस्ते दातव्यमिति पूर्वविध्यनुवादः॥ २१३ ॥
अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् । |
अपेति ॥ अग्नौ पर्युक्षणाद्यङ्गमुक्तं अग्नौकरणहोमानुष्ठानक्रममपसव्यं दक्षिणसंस्थं कृत्वा ततोऽपसव्येन दक्षिणहस्तेन पिण्डाधारभूतायां भुव्युदकं क्षिपेत् ॥ २१४ ॥
त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः । |
त्रीनिति ॥ तस्मादग्न्यादिहोमादुद्धृतादन्नादुद्धृतावशिष्टांस्त्रीन्पिडान्कृत्वा औदकेनैव विधिना दक्षिणहस्तेन समाहितोऽनन्यमना दक्षिणमुखस्तेषु दर्भेष्विति वक्ष्यमाणत्वाद्दर्भेषु दद्यात् ॥ २१५ ॥
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । |
न्युप्येति ॥ विधिपूर्वकं स्वगृह्योक्तविधिना दर्भेषु तान्पिण्डान्दत्वा 'दर्भमूलेषु करावघर्षणम्' इति विष्णुवचनाच्च तेषु दर्भेषु मूलदेशे हस्तं निर्लेपं कुर्यात्प्रपितामहपित्रादीनां त्रयाणां लेपभुजां तृप्तये ॥ २१६ ॥
आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् । |
आचम्येति ॥ अनन्तरमुपस्पृश्योदङ्मुखो भूत्वा यथाशक्ति प्राणायामत्रयं कृत्वा 'वसन्ताय नमस्तुभ्यम्' इत्यादिना षड्ऋतून्नमस्कुर्यात् । पितॄंश्च 'नमो वः पितर' इत्यादिमन्त्रयुक्तम् 'अभिपर्यावृत्य' इति गृह्यदर्शनाद्दक्षिणामुखो नमस्कुर्यात् ॥ २१७ ॥
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । |
उदकमिति ॥पिण्डदानात्पूर्वं पिण्डाधारदेशदत्तोदकशेषमुदकपात्रस्थं प्रतिपिण्डसमीपदेशे क्रमेण पुनरुत्सृजेत् । तांश्च पिण्डान्यथान्युप्तान्येनैव क्रमेण दत्तांस्तेनैव क्रमेणावजिघ्रेत् । समाहितोऽनन्यमनाः ॥ २१८ ॥