पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३]
११७
मन्वर्थमुक्तावलीसंवलिता।

 अवेति ॥ चोक्षाः स्वभावशुचयोऽरण्यादिप्रदेशास्तेषु, नद्यादितीरेषु, तथा निर्जनप्रदेशेषु दत्तेन श्राद्धादिना सर्वदा पितरस्तुष्यन्ति ॥ २०७ ॥

आसनेषूपक्लृप्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत् ॥ २०८ ॥

 आसनेष्विति ॥ तत्र च देशे आसनेषु पृथक्पृथग्विन्यस्तेषु सकुशेषु प्रागामत्त्रितब्राह्मणान्सम्यक्कृतस्नानाचमनानुपवेशयेत् । अत्र देवब्राह्मणासने कुशद्वयम्, पित्रासनेषु च प्रत्येकं दक्षिणाग्र एकः कुशो देयः । तदाह देवलः-'ये चात्र विश्वेदेवानां विप्राः पूर्वनिमन्त्रिताः । प्राङ्मुखान्यासनान्येषां द्विदर्भोपहतानि च ॥ दक्षिणामुखयुक्तानि पितॄणामासनानि च । दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥' दक्षिणामुखयुक्तानि दक्षिणाग्राणि । अग्रं काण्डमूलापेक्षया ॥ २०८ ॥

उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिरर्चयेद्देवपूर्वकम् ॥ २०९ ॥

 उपेति ॥ तान्विप्रानामन्त्रितानासनेषूपवेश्य कुङ्कुमादिगन्धमाल्यधूपादिभिः स्पृहणीयगन्धैर्देवपूर्वकमर्चयेत् ॥ २०९ ॥

तेषामुदकमानीय सपवित्रांस्तिलानपि ।
अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ २१०॥

 तेषामिति ॥ तेषां ब्राह्मणानामर्धोदकपवित्रतिलान्संमिश्रान्कृत्वा तैर्ब्राह्मणैः सहानुज्ञातोऽग्नौ वक्ष्यमाणं होमं कुर्यात् ।अनुज्ञासामर्थ्याच्च प्रार्थनापि पूर्वं कर्तव्या । सा च स्वगृह्यानुसारेण करवाणि करिष्य इत्यादिका । अनुज्ञापि ओमित्येवंरूपा कुरुष्वेति वा ॥ २१० ॥

अग्नेः सोमयमाभ्यां च कृत्वाप्यायनमादितः।
हविर्दानेन विधिवत्पश्चात्संतपयेत्पितॄन् ॥ २११ ॥

 अग्नेरिति ॥ अग्नेः सोमयमयोश्च विधिवत्पर्युक्षणादिपूर्वं हविर्दानेन प्रीणनमादौ कृत्वा पश्चादन्नादिना पितॄंस्तर्पयेत् । सोमयमयोर्द्वन्द्वनिर्देशेऽपि पृथगेव देवतात्वम् । सहादिशब्दप्रयोगाभावात् । यत्र साहित्यं विवक्षितं तत्र सहादिशब्दं करोतीत्युक्तं प्राक् ॥ २१ ॥

अग्न्यभावे तु विप्रय पाणावेवोपपादयेत् ।
यो ह्यग्निः स द्विजो विप्रैमन्त्रदर्शिभिरुच्यते ॥ २१२ ॥

 अग्न्यभावे त्विति ॥ अग्न्यभावे पुनर्ब्राह्मणहस्त एवाक्ताहुतित्रयं दद्यात् । यस्माद्य एवाग्निः स एव ब्राह्मण इति वेदविद्भिाह्मणैरुक्तः। अग्न्यभावश्चानुपनीतस्य संभवति । उपनीतस्य समावृत्तस्य च पाणिग्रहणात्पूर्वं मृतभार्यस्य वा ॥ २१२ ॥