पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
[अध्यायः ३
मनुस्मृतिः ।

 ऋषिभ्य इति ॥ ऋषिभ्यो मरीच्यादिभ्य उक्तक्रमेण पितरो जाताः । पितृभ्यो देवमानवा जाताः देवेभ्यश्च जङ्गमस्थावरं जगत्क्रमेण जातम् । तस्मात्सोमपादिप्रभवत्वात्स्वपितृपितामहप्रपितामहानामेषां श्राद्धे पूजनीयाः सोमपादयोऽपि पूजिताः सन्तः श्राद्धफलदानाय कल्पन्त इति प्रकृतश्च पित्रादिश्राद्धस्तुत्यर्थोऽयं सोमपादिपितृगणोपन्यासः । अथवा आवाहनकाले निजपित्रादयो ब्राह्मणादिभिः सोमपादिरूपण ध्येयाः। एवं व्यवस्थाज्ञानमनुष्ठानपरता च स्यात् ॥ २०१॥

राजतैर्भाजनैरेषामथो वा राजतान्वितैः ।
वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते ॥ २०२॥

 राजतैरिति ॥ एषां पितॄणां रूप्यमयपात्रैः रूप्ययुक्तैर्वा ताम्रादिपात्रैर्जलमपि श्रद्धया दत्तमक्षयसुखहेतुः संपद्यते किं पुनः प्रशस्तपायसादीति ॥ २०२ ॥

देवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं श्रुतम् ॥ २०३ ॥

 देवेति ॥ देवानुद्दिश्य यत्क्रियते तद्देवकार्यम् । ततः पितृकार्यं द्विजातीनां विशेषेण कर्तव्यमुपदिश्यते । अनेन पितृश्राद्धस्य प्राधान्यं, दैवं तत्राङ्गमित्याह । एतदेव स्पष्टयति । यतो दैवं कर्म पितृकृत्यस्य पूर्वं सदाप्यायनं परिपूरकं स्मृतम् ॥२०३॥

तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि हि विलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ २०४ ॥

 तेषामिति ॥ आरक्षो रक्षा तेषां पितॄणां रक्षाभूतं दैवं विश्वेदेवब्राह्मणं पूर्वं निमन्त्रयेत् । यस्माद्रक्षावर्जितं श्राद्धं राक्षसा आच्छिन्दन्ति ॥ २०४ ।।

दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।
पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः॥ २०५॥

 दैवेति ॥ यत एवमतः तच्छ्राद्धं दैवाद्यन्तं दैवे कर्मणि आद्यन्तावारम्भावसाने यस्य तत्तथा । एतेनेदमुक्तं निमन्त्रणादि सर्वं दैवपूर्वं, विसर्जनं तु देवानां शेपे । अतएव देवल:-'यत्तत्र क्रियते कर्म पैतृके ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेविकपूर्वकम् ॥' नतु तच्छ्राद्धं पित्रुपक्रमावसानं पित्राद्यन्तं तदनुतिष्ठन्ससंतानः शीघ्रं विनश्यति ॥ २०५॥

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ २०६॥

 शुचिमिति ॥ अस्थ्यङ्गाराद्यनुपहतं देशं निर्जनं च गोमयेनोपलेपयेत् । दक्षिणादिगवनतं च प्रयत्नतः संपादयेत् ॥ २०६ ॥

अवकाशेषु चोक्षेषु नदीतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २०७॥