मनोरिति ॥ हिरण्यगर्भापत्यस्य मनोर्ये मरीच्यादयः पुत्राः पूर्वमुक्ताः ‘मरीचिरभ्यङ्गिरसौ' इत्यादिना तेषामृषीणां सर्वेषां सोमपादयः पितृगणाः पुत्रा मन्वादिभिः स्मृताः ॥ १९४ ॥
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । |
विराडिति ॥ विराट्सुताः सोमसदो नाम साध्यानां पितरः । अग्निष्वात्ता मरीचेः पुत्रा लोकविख्याता देवानां पितरः ॥ १९५ ॥
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् । |
दैत्येति ॥ दैत्यादीनां प्रथमाध्यायोदितभेदानामत्रिपुत्रा बर्हिपदो नाम पितरः स्मृताः ॥ १९६ ॥
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । |
सोमपा इति ॥ ब्राह्मणप्रभृतीनां चतुर्णां वर्णानां सोमपाप्रभृतयश्चत्वारः पितरः स्मृताः ॥ १९७ ॥
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । |
सोमपा इति ॥ कवेर्भृगोः सोमपाः पुत्राः । हविर्भुज एव हविष्मन्तोऽङ्गिरसः पुत्राः । आज्यपाः पुलस्त्यसुताः । सुकालिनो वसिष्ठसुताः ॥ १९८ ॥
अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा । |
अग्नीति ॥ अग्निदग्धानग्निदग्धकाव्यबर्हिषदग्निष्वात्तसौम्याख्यान्परान्पितॄन्विप्राणामेव जानीयात् ॥ १९९ ॥
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । |
य इति ॥ य एते प्रधानभूताः पितृगणा उक्तास्तेषामपीह जगति पितर एव पुत्रपौत्रा अनन्ता विज्ञेयाः । पुत्रपौत्रमिति 'गवाश्वप्रभृतीनि च' इत्येकवद्भावः । एतच्छ्लोकसूचिता एव 'वरो वरेण्यः' इत्यादयोऽन्येऽपि पितृगणा मार्कण्डेयादिपुराणादिषु श्रूयन्ते ॥ २० ॥
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । |