पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
[अध्यायः ३
मनुस्मृतिः।

निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् ।
वायुवच्चानुगच्छन्ति तथासीनानुपासते ॥ १८९ ॥

 निमन्त्रितानिति ॥ पूर्वनियमविधेरयमनुवादः । यस्मात्तान्ब्राह्मणान्निमन्त्रितानदृश्यरूपेण पितरोऽधितिष्ठन्ति । प्राणवायुवद्गच्छतोऽनुगच्छन्ति, तथोपविष्टेषु तेषु समीप उपविशन्ति, तस्मान्नियता भवेयुः ॥ १८९ ॥

केतितस्तु यथान्यायं हव्यकव्ये द्विजोत्तमः ।
कथंचिदप्यतिक्रामन्पापः सूकरतां व्रजेत् ॥ १९० ॥

 केतित इति ॥ हव्यकव्ये यथाशास्त्रं निमन्त्रितो ब्राह्मणः स्वीकृत्य केनापि प्रकारेण भोजनमकुर्वाणस्तेन पापेन जन्मान्तरे सूकरो भवति ॥ १९० ॥

 'नियतात्मा भयेन्सदा' इत्यनेन मैथुननिषेधे कृते वृषलीगमनस्याधिकदोषज्ञापनायाह-

आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर्यद्दुष्कृतं किंचित्तत्सर्वं प्रतिपद्यते ॥ १९१ ॥

 आमन्त्रितस्त्विति ॥ वृषली शूद्रा तत्र सूढत्वाच्छ्राद्धे निमन्त्रितः सन् यो वृषल्या सार्धं स्त्रीपुंसधर्मेण सुरतादिना रमते स दातुर्यत्पापं तत्प्राप्नोति । पापोत्पत्तिमात्रं विवक्षितम् । अन्यथा दातर्यपापे पापं न जायते । नचेदं दातुः प्रायश्चित्ततया विहितं येनासौ पापान्मुच्यते । मेधातिथिगोविन्दराजौ तु सामान्येन ब्रह्मचर्यस्य विधानाद्वृषस्यन्ती चपलयति भर्तारमिति योगाश्रयणेन श्राद्धभोक्तुरूढा ब्राह्मण्यपि वृषल्यभिमतात्रेत्याहतुः ॥ १९१ ॥

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ १९२ ॥

 अक्रोधना इति ॥ क्रोधरहिताः, बहिःशौचं मृद्वारिभ्यामन्तःशौचं रागद्वेषादित्त्यागस्तद्युक्ताः सर्वदा स्त्रीसंयोगादिशून्याः, त्यक्तयुद्धाः दयाद्यष्टगुणयोगो महाभागता तद्वन्तः, अनादिदेवतारूपाः पितरस्तस्मात्क्रोधादिरहितेन भोक्त्रा कर्त्रा च भवितव्यम् ॥ १९२ ॥

यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।
ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ १९३ ॥

 यस्मादिति ॥ एषां सर्वेषां पितॄणां यस्सादुत्पत्तिर्ये च पितरो यैर्ब्राह्मणादिभिर्यैर्नियमैः शास्त्रोक्तकर्मभिरुपचरणीया भवेयुस्तान्साकल्येन शृणुत ॥ १९३ ॥

मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः।
तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः।। १९४ ॥