पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


११२
[अध्यायः ३
मनुस्मृतिः।

 प्रसङ्गाच्च शूद्रयाजकप्रतिग्रहं निषेधयति-

वेदविच्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ १७९ ॥

 लाघवार्थमन्यत्र निषेधकरणे शूद्रयाजकशब्दोच्चारणं कर्तव्यं स्यात् । वेदेति । वेदज्ञोऽपि ब्राह्मणः शूद्रयाजकस्य लोभात्प्रतिग्रहं कृत्वा शीघ्रं शरीरादिना विनाशं गच्छति । सुतरामवेदवित् । अपक्वमृन्मयशरावादिकमिवोदके ॥ १७९ ॥

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ १८० ॥

 सोमविक्रयिण इति । सोमविक्रयिणे यद्दत्तं तद्दातुर्भोजनार्थं विष्टा संपद्यते । जन्मान्तरे विष्ठाभोजिनां जातौ जायत इत्यर्थः । इतरे एवं पूयशोणितेऽपि व्याख्येयम् । नष्टं नागभागितया निष्फलं विवक्षितम् । अप्रतिष्ठमनाश्रयतया निष्फलनेव ॥ १८०॥

यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ १८१ ॥

 यत्त्विति ॥ वाणिजकाय यद्दत्तं श्राद्धे तन्नेहानुषङ्गिककीर्त्यादिफलाय, नापि पारलौकिकफलाय भवति । पुनर्भूपुत्राय यद्दत्तं तद्भस्महुतहविःसमम् । निष्फलमित्यर्थः ॥ १८१ ॥

इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु ।
मेदोसृङ्मांसमज्जास्थि वदन्त्यन्नं मनीषिणः ॥ १८२ ॥

 इतरेष्विति ॥ इतरेभ्यो विशेषेणानुक्तफलेभ्यः पङ्क्तिभोजनानर्हेभ्यः स्तेनादिभ्यो यथाकीर्तितेभ्यो यदृत्तमन्नं तद्दातुर्भोजनार्थं मेदोरुधिरमांसमज्जास्थि भवतीति पण्डिता वदन्ति । अत्रापि जन्मान्तरे मेदःशोणितादिभुजां जातिषु जायन्त इत्यर्थः ॥ १८२ ॥

अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः।
तान्निबोधत कार्त्स्येन द्विजाग्र्यान्पङ्क्तिपावनान् ॥ १८३ ॥

 अपाङ्क्त्येति ॥ एकपङ्क्त्युपविष्टस्तेनादिदूषिता पङ्क्तिर्यैर्ब्राह्मणैः पवित्रीक्रियते तान्पवित्रीकारकान्ब्राह्मणानशेषेण शृणुत । निषेधादेकपङ्क्तिभोजनासंभवेऽपि स्तेनादीनां रहस्यकृताज्ञातदोषविषयत्वेन साधकतास्य वचनस्य ॥ १८३ ॥

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः॥१८४ ॥

 अग्र्या इति ॥ सर्वेषु वेदेषु चतुर्ष्वप्यडयाः श्रेष्ठाः सम्यग्गृहीतवेदा ब्राह्मणाः