पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३]
१११
मन्वर्थमुक्तावलीसंवलिता।

त्सकृदृतावृतावित्यादिविधिं हित्वा कामेनानुरागं भावयेदाश्लेषचुम्बनादि कुर्यादसकृद्वा प्रवर्तेत स दिधिषूपतिर्ज्ञातव्यः । अतः श्राद्धनिषिद्धपात्रमध्यपाठादस्यापि हव्यकव्यपात्रयोनिषेधः कल्पनीयः ॥ १७३ ॥

परदारेषु जायेते द्वौ सुतौ कुण्डगोलको ।
पत्यौ जीवति कुण्डः स्यान्मृते भर्तरि गोलकः॥१७४॥

 परेति ॥ परदारेषु कुण्डगोलकाख्यौ द्वौ सुतावुत्पद्येते। तत्र जीवत्पतिकायामुत्पन्नः कुण्डः मृतपतिकायां च गोलकः ॥ १७४ ॥

तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥ १७५ ॥

 ताविति ॥ ते परभार्यायां जाताः कुण्डाद्या दृष्टानुपयोगात्प्राणिन इति व्यपदिष्टाः । प्राणिनौ ब्राह्मणत्वेऽपि तत्कार्याभावात्प्रेत्य फलाभावात्परलोके चानुषङ्गिककीर्त्यादिफलाभावाद्दत्तानि हव्यकव्यानि प्रेत्य फलाभावादिह कीर्तेरभावान्नाशयेते नाशयतः, प्रदायिभिर्दत्तानि हव्यकव्यानि निष्फलानि कुर्वन्ति ॥ १७५ ॥

अपाङ्क्त्यो यावतः पाङ्क्त्यान्भुञ्जानाननुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः॥१७६ ॥

 अपाङ्क्त्य इति ॥ सद्भिः सहैकपङ्क्त्यां भोजनानर्हः स्तेनादिर्यत्संख्यान्भोजनार्हान्पश्यति तावत्संख्यानां भोजनस्य फलं तत्र श्राद्धे दाता न प्राप्नोति, बालिशोऽज्ञः। अतस्तेनादिर्यथा न पश्यति तथा कर्तव्यम् ॥ १७६॥

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु ।
पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ १७७ ॥

 वीक्ष्येति॥ अन्धस्य वीक्षणासंभवाद्वीक्षणयोग्यदेशसंनिहितोऽसौ पाङ्क्त्यानां नवतेर्भोजनफलं नाशयति, एवं काणः षष्टेः, श्वेतकुष्ठी शतस्य, पापरोगी रोगराजोपहतः। सहस्रस्येत्यन्धादिसन्निधिनिरासार्थं वचनम् । गुरुलघुसंख्याभिधानं चेह संख्योपचये दोषगौरवं तत्र च प्रायश्चित्तगौरवमिति दर्शयितुम् ॥ १७७ ॥

यावतः संस्पृशेदङ्गैर्ब्राह्मणाञ्छूद्रयाजकः ।
तावतां न भवेद्दातुः फलं दानस पौर्तिकम् ॥ १७८ ॥

 यावत इति ॥ शूद्रस्य यज्ञादावृत्विग्यावत्संख्यान्ब्राह्मणान्स्पृशति 'आसनेपूपक्लृप्तेषु' इत्यासनभेदस्य वक्ष्यमाणत्वान्मुख्यस्पर्शासंभवे यावतां श्राद्धभोजिनां पङ्क्तावुपविशति तावतां संबन्धि पौर्तिकं फलं श्राद्धीयं दातुर्न भवति । तावतां पौर्तिकं फलं बहिर्वेदिदानाच्च यत्फलं तन्न भवति इति मेधातिथिगोविन्दराजौ। अतस्तयैव निन्दया निषिद्धगणापठितस्यापि शूद्रयाजकस्यभोजननिषेधः कल्प्यते॥