पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
[अध्यायः ३
मनुस्मृतिः ।

ब्राह्मणस्त्वनधीयानस्तृणाग्निरिव
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ १६८ ॥

 ब्राह्मण इति ॥ तृणाग्निर्यथा न हविर्दहनसमर्थो हविषि निष्फलम्तत्र होमः,एवं वेदाध्ययनशून्यो ब्राह्मणस्तृणाग्निसमम्तस्मै देवोद्देशेन त्यक्तं हविर्न दातव्यं, यतो भस्मनि न हूयते। प्रनिषेधसिद्धौ स्तेनादिवत्पङ्क्तिदूषकत्वज्ञापनार्थं पुनर्वचनम् । अन्येतु दैवेऽनधीयान एव वर्जनीयः, अधीयानस्तु काणादिरपि शारीरदोषयुक्तो ग्राह्य इत्येतदर्थं पुनर्वचनम् । अतएव वसिष्ठः-'अथ चेन्मन्त्रविद्युक्तः शारीरैः पङ्क्तिदूषणैः । अदूष्यं तं यमः प्राह पङ्क्तिपावन एव सः' । शारीरैः काणन्वादिभिर्नतु स्वयमुत्पाद्यैः स्तेनत्वादिभिः १६८

अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलोदयः ।
दैवे हविषि पित्र्ये वा तत्प्रवक्ष्याम्यशेषतः॥ १६९ ॥

 अपाङ्क्तदान इति ॥ पङ्क्तिभोजनानर्हब्राह्मणाय दैवे हविषि पित्र्ये वा दत्ते दातुर्यो दानादूर्ध्वं फलोदयस्तमशेषमभिधास्यामि ॥ १६९ ॥

अव्रतैर्यद्विजैर्भुक्तं परिवेत्रादिभिस्तथा ।
अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ १७० ॥

 अव्रतैरिति ॥ वेदग्रहणार्थं व्रतरहितैस्तथा परिवेत्रादिभिरन्यैश्चापाङ्क्तेयैः स्तेनादिभिर्यद्धव्यं भुक्तं तद्रक्षांसि भुञ्जते । निष्फलं तच्छ्राद्धं भवतीत्यर्थः ॥ १७० ॥

 अप्रसिद्धत्वात्परिवेत्त्रादिलक्षणमाह-

दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ १७१ ॥

 दारेति ॥ अग्निहोत्रशब्दोऽयमग्निहोत्राद्याधानपरः। यः सहोदरे ज्येष्ठे भ्रातर्यनूढेऽनग्निके च दारपरिग्रहं च कुरुते स परिवेत्ता ज्येष्ठश्च परिवित्तिर्भवति ॥ १७१ ॥

 प्रसङ्गात्परिवेदनसंबन्धिनां पञ्चानामप्यनिष्टं फलमाह-

परिवित्तिः परिवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः॥१७२ ॥

 परीति ॥ परिवित्तिः परिवेत्ता च यया च कन्यया परिवेदनं क्रियते कन्याप्रदाता याजकश्च स पञ्चमो येषां ते सर्वे नरकं व्रजन्ति ॥ १७२ ॥

भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ १७३ ॥

 भ्रातुरिति ॥ मृतस्य भ्रातुर्वक्ष्यमाणनियोगधर्मेणापि नियुक्तायां भार्यायां सकृ-