एषामिति ॥ एषां संपूर्णशाखाध्यायिनां बह्वृचादीनां मध्यादन्यतमो यस्य सम्यक् पूजितः सन् श्राद्धे भुङ्क्ते तस्य पुत्रादिसप्तपुरुषाणां शाश्वती अविच्छिन्ना पितॄणां तृप्तिः स्यात् । साप्तपौरुषीत्यनुशतिकादित्वादुभयपदवृद्धिः तस्य चाकृतिगणत्वात् ॥ १४६॥
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः। |
एष इति ॥ हव्यकव्ययोरुभयोरेव प्रदाने यदसंबन्धिश्रोत्रियादिभ्यो दीयत इत्ययं मुख्यः कल्प उक्तः । अयं तु मुख्याभावे वक्ष्यमाणोऽनुकल्पो ज्ञातव्यः सर्वदा साधुभिरनुष्ठितः ॥ १४७ ॥
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । |
मातामहमिति ॥ स्वस्त्रीयो भागिनेयः, गुरुर्विद्यागुरुराचार्यादिः, विट् दुहिता तस्याः पतिर्विट्पतिर्जामाता, बन्धुर्भातृष्वसृपुत्रादिः, एतान्मातामहादीन्दश मुख्यश्रोत्रियाद्यसंभवे भोजयेत् ॥ १४८ ॥
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । |
नेति ॥ धर्मज्ञो दैवश्राद्धे भोजनार्थं न ब्राह्मणं यत्नतः परिक्षेत । लोकप्रसिद्धिमात्रेणासौ साधुतया भोजयितव्यः । पित्र्ये पुनः कर्मण्युपस्थिते पितृपितामहाद्यभिजनपरीक्षा कर्तव्येति प्रयत्नतःशब्दस्यार्थः ॥ १४९ ॥
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः। |
य इति ॥ स्तेनश्चौरः स च सुवर्णचोरादन्यः, तस्य पतितशब्देनैव ग्रहणात् । पतितो महापातकी, क्लीबो नपुंसकः, नास्तिकवृत्तिर्नास्तिपरलोक इत्येवं वृत्तिः प्रवर्तनं यस्य एतान्दैवपितृकृत्ययोरुभयोरेवायोग्यान्मनुरब्रवीदिति मनुग्रहणं निषेधादरार्थम् । सर्वधर्माणामेव मनुनोक्तत्वात् ॥ १५० ॥
जटिलं चानधीयानं दुर्बलं कितवं तथा । |
जटिलमिति ॥ जटिलो ब्रह्मचारी । 'मुण्डो वा जटिलो वा स्यात्' इत्युक्तब्रह्मचार्युपलक्षणत्वाज्जटिलत्वस्य मुण्डोऽपि निषिध्यते । अनधीयानं वेदाध्ययनरहितं यस्योपनयनमात्रं कृतं न वेदादेशः तेनास्वीकृतवेदस्यापि ब्रह्मचारिणो वेदाध्ययनकर्तुरभ्यनुज्ञानार्थोऽयं निषेधः । अतः 'श्रोत्रियायैव देयानि' इति ब्रह्मचारीतरविषयम् । दुर्बलो दुश्चर्मा । मेधातिथिस्तु दुर्बालमिति पठित्वा खलतिर्लोहितकेशो वा