पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३]
१०५
मन्वर्थमुक्तावलीसंवलिता।

च मैत्रीप्रयोजनकत्वान्न परलोकफला इह लोक एवास्ते । यथान्धा गौरेकस्मिन्नेव गृहे तिष्ठति न गृहान्तरगमनक्षमा ॥ २४१ ॥

यथेरिणे बीजमुवा न वप्ता लभते फलम् ।
तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ १४२ ॥

 यथेति ॥ ईरिणमूषरदेशो यत्र बीजमुप्तं न प्ररोहति तत्र यथा बीजमुप्त्वा कर्षको न फलं प्राप्नोत्येवमविदुषे श्राद्धदानफलं दाता न प्राप्नोतीति ॥ १४२ ॥

दातॄन्प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चेह च ॥ १४३॥

 दातॄनिति ॥ वेदतत्त्वविदे यथाशास्त्रं दत्तमैहिकामुष्मिकफलभागिनो दातॄन्करोति । ऐहिकं फलं यथाशास्त्रानुष्ठानेन लोके ख्यातिरूपमानुषङ्गिकमिति मेधातिथिगोविन्दराजौ । वयं त्वायुरादिकमेवैहिकफलं ब्रूमः । 'आयुः प्रजां धनं विद्याम्' इत्याद्यैहिकामुष्मिकादिफलत्वेनापि श्राद्धस्य याज्ञवल्क्यादिभिरुक्तत्वात् । प्रतिग्रहीतॄंश्व श्राद्धलब्धधनानुष्ठितयागादिफलेन परलोके सफलां कुरुते । अन्यायार्जितधनानुष्ठितयागादेरफलप्रदत्वात् । इह लोके न्यायार्जितधनारब्धकृष्यादिफलातिशयलाभात्सफलां कुरुते ॥ १४३ ॥

कामं श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।
द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ १४४ ॥

 काममिति ॥ वरं विद्वद्ब्राह्मणाभावे गुणवन्मित्रं भोजयेन्नतु विद्वांसमपि शत्रुम्, यतः शत्रुणा श्राद्धं भुक्तं परलोके निष्फलं भवति । यथोक्तपात्रासंभवे मित्रप्रतिप्रसवार्थमिदम् ॥ १४४॥

 'श्रोत्रियायैव देयानि' इत्यनेन छन्दोमात्राध्यायिनि श्रोत्रियशब्दप्रयोगात्तदाश्रयणमावश्यकमुक्तम्, इदानीं त्वधिकफलार्थं मन्त्रब्राह्मणात्मककृत्स्नशाखाध्यायिनि श्रोत्रिये दानमाह-

यत्नेन भोजयेच्छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ १४५॥

 यत्नेनेति ॥ऋग्वेदिनं मन्त्रब्राह्मणात्मकशाखाध्यायिनं यत्नतो भोजयेत् । तथाविधमेव यजुर्वेदिनं । वेदस्य पारं गच्छतीति वेदपारगः । शाखाया अन्तं गच्छतीति शाखान्तगः । समाप्तिरस्यास्तीति समाप्तिकः । सर्वैरेव शब्दैर्मन्त्रब्राह्मणात्मककृत्स्नशाखाध्येताभिहितः ॥ १४५ ॥

 तद्भोजनेऽधिकं फलमाह-

एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः।
पितॄणां तस्य तृप्तिः स्याच्छाश्वती साप्तपौरुषी ॥ १४६ ॥