पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३] मन्वथमुक्तावलीसंवलिता । १०१

न्तर्यमस्य । तच्चामिषेण वक्ष्यमाणमांसेन प्रशस्तेन मनोहरेण पूतिगन्धादिरहितेन प्रयत्नतः कर्तव्यम् । "पिण्डानां मासिकं श्राद्धम्' इति वा पाठः । पिण्डानां पितृयज्ञपिण्डानां । शेषं तुल्यम् ॥ १२३ ॥

तत्र ये भोजनीयाः स्युर्ये च वा द्विजोत्तमाः।
यावन्तश्चैव यैश्वान्नैस्तान्प्रवक्ष्याम्यशेषतः॥ १२४ ॥

तत्रेति ॥ तस्मिन् श्राद्धे ये भोजनीयाः ये च त्याज्या यत्संख्याकाः यैश्चान्नैस्तत्सर्वं प्रवक्ष्यामि ॥ १२४ ॥ अत्र यद्यप्युद्देशक्रमेण ये भोजनीया इति वक्तुमुचितं तथाप्यल्पवक्तव्यत्वाद्राह्मणसंख्यामाह-

द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ १२५ ॥

द्वाविति ॥ देवश्राद्धे द्वौ ब्राह्मणौ पितृपितामहप्रपितामहानां त्रीन्ब्राह्मणान् अथवा दैवे एकं पित्रादित्रिके चैकं ब्राह्मणं भोजयेत् । उक्तातिरिक्तभोजनसमर्थोऽपि नाधिकभोजनेषु प्रवर्तेत । मेधातिथिस्त्वाह । पितृकृत्ये त्रीनिति पितुस्त्रीन्बाह्मणान्, पितामहस्य त्रीन्ब्राह्मणान्, प्रपितामहस्य त्रीन्ब्राह्मणान्भोजयेत् । 'एकैकमुभयत्र वा' इति दैव एक पित्रादित्रयस्य चैकैकं न त्वेकं पित्रादित्रयस्य । 'न त्वे- वैकं सर्वेषां (काममनाद्ये) पिण्डैर्व्याख्यातम्' इत्याश्वलायनगृह्यविरोधात् । यथैकपिण्डः पित्रादित्रयस्य न निरूप्यते तथैको ब्राह्मणो न भोजयितव्य इत्यर्थः । तस्मान्न पित्रादित्रयस्यैकब्राह्मणभोजनं । तदसत् गृह्यकारेणैव 'न त्वेवैकं सर्वेषां पिण्डैर्व्याख्यातम्' इति पठित्वा 'काममनाद्ये' इत्यभिहितम् । अस्यार्थः । बहुपित्रादिदेवताकश्राद्धानामाद्यं सपिण्डीकरणमभिमतं तव्द्यितिरिक्तश्राध्दे काममेकः पित्रादिनां ब्राह्मण इत्यर्थः । अथवा अनाद्ये अदनीयद्रव्याभावे एकोऽपि भोजयितव्यः । उभयत्रापि व्याख्याने पार्वणादौ पित्रादित्रयस्यैकबाह्मणभोजनं गृह्यकृतैवोक्तम् । वसिष्टोऽपि-'यद्येकं भोजयेच्छ्राद्धे दैवतत्रं कथं भवेत् । अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥ देवतायतने कृत्वा यथाविधि प्रवर्तयेत् । प्रास्वेदन्नं तदग्नौ वा दद्याद्वा ब्रह्मचारिणे ॥' इति सर्वेभ्य एकब्राह्मणभोजनमाह । तस्माद्यथोक्तव, व्याख्या । 'प्रथने वावशब्दे' इत्यनेन विस्तार इति प्राप्ते छन्दःसमानत्वात्स्मृतीनां 'सर्वे विधयश्छन्दसि विकल्पन्ते' इति विस्तर इति रूपम् ॥ १२५ ॥

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः।
पञ्चैतान्विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ १२६ ॥

सदिति ॥ सन्क्रियां ब्राह्मणस्य पूजां देशं दक्षिणप्रवणत्वादिवक्ष्यमाणं कालमपराह्णं शौचं श्राद्धकर्तृभोक्तृब्राह्मणप्रैष्यगतं गुणवद्राह्मणालाभं च ब्राह्मणविस्तारो नाशयति । तस्माद्राह्मणविस्तरं न कुर्यादिति सत्क्रियादिविरोधतो ब्राह्मणविस्तरनिषेधात्सत्क्रियादिसंभवे पिनादेरेकैकस्यापि ब्राह्मणत्रयाभ्यनुज्ञानम् । अतएव गौ-