पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


१०० मनुस्मृतिः। [अध्यायः ३

राजेति ॥ राज्याभिषिक्तः क्षत्रियो राजा, ऋत्विक् यज्ञे येन यस्याविज्यं कृतम्, स्नातको विद्यावताभ्याम् , प्रियो जामाता । राजादीनेतान्गृहागतान्सप्त गृह्योक्तेन कर्मणा पूजयेत् । परिसंवत्सरादिति संवत्सरं वर्जयित्वा तदूर्ध्व गृहागतान्पुनर्मधुपर्केण पूजयेत् । 'पञ्चम्यपापरिभिः' इति सूत्रेण वर्जनार्थपरियोगेनेयं पञ्चमी । अतएवैतत्सूत्रव्याख्याने जयादित्येनोक्तं 'अपेन साहचर्यात्परेवर्जनार्थस्य ग्रहणम्' इति । मेधातिथिस्तु परिसंवत्सरानिति पठित्वा परिगतो निष्क्रान्तः संवत्सरो येपां तान्पूजयेदिति व्याख्यातवान् । उभयत्रापि पाटे संवन्सरमध्यागमने न मधुपर्कार्हता ॥ ११९ ॥ पूजासंकोचार्थमाह-

राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ ।
मधुपर्केण संपूज्यौ न त्वयज्ञ इति स्थितिः॥ १२० ॥

राजेति ॥ राजस्नातको संवत्सरादूर्ध्वमपि यज्ञकर्मण्येव प्राप्तौ मधुपर्केण पूजनीयौ नतु यज्ञव्यतिरेकेण । जामात्रादयस्तु संवत्सरादूर्वं यज्ञं विनापि मधुपकाहीः । संवत्सरमध्ये तु सर्वेषां यज्ञविवाहयोरेव मधुपर्कः । तदाह गौतमः- 'विगाचार्यश्वशुरपितृव्यमातुलादीनामुपस्थाने मधुपर्कः । संवत्सरे पुनर्यज्ञवि- वाहयोरकि राज्ञः श्रोत्रियस्य च ॥ १२० ॥

सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते ॥ १२१ ॥

सायमिति ॥ दिनान्ते सिद्धस्यान्नस्य पत्री अमन्त्रं बलिहरणं कुर्यात् इन्द्राय नम इति मत्रपाठवर्जम् । मानसस्तु देवतोद्देशो न निपिध्यते । यत एतद्वैश्वदेवं नामानसाध्य होमबलिदानातिथिभोजनात्मकं तत्सायंप्रातर्गृहस्थस्योपदिश्यते१२३ 'श्राद्धकल्पं च शाश्वतम्' इत्यनुक्रमणिकायां प्रतिज्ञातं श्राद्धकल्पमुपक्रमते-

पितृयज्ञं तु निवर्त्य विप्रश्चन्दुक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥ १२२ ॥

पितृयज्ञामिति ॥साग्निरमावास्यायां पिण्डपितृयज्ञाख्यं कर्म कृत्वा श्राद्धं कुर्यात् । पितृयज्ञपिण्डानामनु पश्चादाह्रियत इति पिण्डान्वाहार्यकं श्राद्धं मासानुमासिक मामशानुमासश्च तयोर्भवम् । प्रतिमासं कर्तव्यमित्यर्थः । अनेनास्य नित्यत्वमुक्तम् । विप्रग्रहणं द्विजातिपरम् । त्रयाणां प्रकृतत्वात् ॥ १२२ ॥ इदानीं नामनिर्यचनेनोक्तमेव पितृयज्ञानन्तर्य द्रढयति-

पितॄणां मासिकं श्राद्धमन्वाहार्य विदुर्बुधाः ।
कर्तव्यं प्रशस्तेन प्रयत्नतः ।। १२३ ॥

पितृणामिति ॥ इदं श्राद्धं यसापितृयज्ञपिण्डानामनु पश्रादाहियने तेन पिण्डान्वाहार्यकमिदं पण्डिता जानन्ति । ततो युक्तं पितृयज्ञान-