अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ९९
कृत्वा भार्यया भोजनकाले भोजयेत् । गृहस्थस्यापि स एव भोजनकालः। 'अवशिष्टं तु दम्पती' इति वक्ष्यमाणत्वात् । आत्मना सहेति वक्तव्ये वचनवैचित्रीयमाचार्यस्य। पुरोस्तु भोजनकालानभिधानं प्रभुत्वेन स्वाधीनकालत्वात् ॥ ११३ ॥
सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः। |
सुवासिनीरिति ॥ सुवासिन्यो नवोढाः स्त्रियः सुषा दुहितरश्च ताः कुमारीर्ग- भैणीश्वातिथिभ्योऽग्रे पूर्वमेवातिथिभ्यो भोजयेत् । कथमतिथिष्वभोजितेषु भोजमेषामिति विचारमकुर्वन् । मेधातिथिस्त्वन्वगेवेति पठित्वानुगतानेवैतान्भोजयेदनेथिसमकालमिति व्याख्याय अन्ये तु अग्र इति पठन्तीत्युक्तवान् ॥ ११४ ॥
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते विचक्षणः। |
अदत्वेति ॥ एतेभ्योऽतिथ्यादिभृत्यपर्यन्तेभ्योऽन्नमदत्त्वा व्यतिक्रमभोजनदोषम- नन्यः पूर्वं भुङ्क्ते स मरणानन्तरं श्वगृधेरात्मनो भक्षणं न जानाति । व्यतिक्रमयेदं फलमिति वचनवैदग्ध्येनोक्तम् ॥ ११५ ॥
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । |
भुक्तेति ॥ विप्रेष्वतिथिषु, स्वेषु ज्ञातिषु, भृत्येषु दासादिषु कृतभोजनेषु तोऽन्नादवशिष्टं भार्यापती पश्चादनीयाताम् ॥ ११६ ॥
देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः। |
देवानिति ॥ गृह्याश्च देवता इत्यनेन भूतयज्ञ उक्तः । पञ्चयज्ञानुष्ठानस्य 'अवशिष्टं तु दम्पती' इत्यनेन शेषभोजनस्य च विहितत्वात् । वक्ष्यमाणदोषकथनार्येऽयमनुवादः । अथवा देवानित्यनेनैव भूतयज्ञस्यापि संग्रहः। गृहे भवा गृह्या वताः पूजयित्वेति वासुदेवादिप्रतिकृतिपूजाविधानार्थत्वमस्य ॥ ११७ ॥
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । |
अघमिति ॥ यस्त्वात्मार्थमेवान्नं पक्त्वा भुङ्क्ते देवादिभ्यो न ददाति स पहेतुत्वात्पापमेव केवलं भुङ्क्ते नान्नम् । तथाच श्रुतिः-'केवलाधो भवति वलादी' । यस्माद्यदेव पाकयज्ञावशिष्टमशनमन्नमन्यत् एतदेव साधूनामन्नमुपश्यते इति ॥ ११८॥ अतिथिपूजाप्रसङ्गेन राजादीनामपि गृहागतानां पूजाविशेषमाह-
राजर्त्विक्स्नातकगुरून्प्रियश्वशुरमातुलान् । |