पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः । [अध्यायः ३

अनुव्रज्या गच्छतोऽनुगमनम्, उपासना परिचर्या । एतत्सर्वं बहुष्वतिथिषु युगपदुपस्थितेष्वितरेतरापेक्षयोत्कृष्टापकृष्टमध्यमं कुर्यान पुनः सर्वेषां समम् ॥३०७॥

वैश्वदेवे तु निवृत्ते यद्यन्योऽतिथिराव्रजेत् ।
तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ १०८ ।।

वैश्वदेव इति ॥ अन्यशब्दनिर्देशादतिथिभोजनपर्यन्तं वैश्वदेवे कृते यद्यपरोऽतिधिरागच्छेत्तदा तदर्थं पुनः पाकं कृत्वा तस्यान्नं दद्यात् । बलिहरणं ततो नात्र कुर्यात् । बलिनिषेधादनसंस्काराभावो वैश्वदेवस्यावगम्यते । अन्नसंस्कारपक्षे कथमसंस्कृतान्नभोजनमनुजानीयात् ॥ १०८ ॥

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ १०९ ॥

नेति ॥ भोजनलाभार्थं ब्राह्मणः स्वकुलगोत्रे न निवेदयेत् । यस्माद्भोजनार्थ ते कथयन्नुद्गीर्णाशीति पण्डितैः कथ्यते ॥ १०९ ॥

न ब्राह्मणस्य त्वतिथिगृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ११० ॥

नेति ॥ ब्राह्मणस्य क्षत्रियादयोऽतिथयो न भवन्ति क्षत्रियादीनां ब्राह्मणस्योत्कृजातित्वात् । मित्रज्ञातीनामात्मसंबन्धाद्गुरोः प्रभुत्वात् । अनेनैव न्यायेन क्षत्रिअस्य उत्कृष्टो ब्राह्मणः सजातीयश्च क्षत्रियोऽतिथिः स्यान्नापकृष्टौ वैश्यशूदौ । एवं वैश्यस्यापि द्विजातयोऽतिथयो न शूद्रः ॥ ११० ॥

यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ १११ ॥

अदीति ॥ यदि ग्रामान्तरागतत्वादतिथिकालोपस्थितत्वादतिथिधर्मेण क्षत्रियो वित्रगृहमागच्छेत्तदा विप्रगृहोपस्थितविप्रेषु कृतभोजनेषु स्थितेष्विच्छातस्तमपि भोजयेत् ॥ १११ ॥

वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ११२ ॥

वैश्येति ॥ यदि वैश्यशूद्रावपि ब्राह्मणस्य कुटुम्बे गृहे प्राप्तौ ग्रामान्तरादागतत्वाद्यतिथिधर्मशालिनौ तदा तावपि क्षत्रियभोजनकालात्परतो दम्पतीभोजनात्पूर्वं दासभोजनकाले अनुकम्पामाश्रयन्भोजयेत् ॥ ११२ ॥

इतरानपि सख्यादीन्संप्रीत्या गृहमागतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥११३॥

इतरानिति ॥ उक्तभोजनकाले क्षत्रियादिव्यतिरिक्तान्सखिसहाध्यायिप्रभृतीन्संप्रीत्या गृहमागतान् न त्वतिथिभावेन । तस्य प्रतिषेधात् । यथाशक्ति प्रकृष्टमन्नं