पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


८८ मनुस्मृतिः । [ अध्यायः ३

आर्य इति ॥ आर्षे विवाहे गोमिथुनं शुल्कं वराद्ग्राह्यमिति केचिदाचार्या वदन्ति तत्पुनरसत्यम् । यस्मादल्पमूल्यसाध्यत्वादल्पो वा भवतु, बहुमूल्यसाध्यत्वान्महान्बा भवतु स तावद्विक्रयो भवत्येव । यत्पुनः 'एक गोमिथुनम्' इति पूर्वमुक्त तत्परमतमिति गोविन्दराजस्तदयुक्तम् । मनुमते लक्षणमार्षस्य न स्यादेव । वराोमिथुननहणपूर्वककन्यादानस्वैवाविवाहलक्षणत्वात् । मन्वभिमतमन्यदेवार्षलक्षणम्, एक गोमिथुनमिति परमतमिति चेत् 'एकं गोमिथुनं द्वे चेत्येतत्परमतं यदि। तदा मनुमतेनार्षलक्षणं किं तदुच्यताम् ॥ अष्टौ विवाहान्कथयन्नार्षोढासंततेर्गुणान् । मनुः किं स्वमतेनार्षलक्षणं वक्तुमक्षमः॥' मेधातिथिस्तु पूर्वापरविरोधोपन्यासनिरासमेव न कृतवान् । तस्मादस्माभिरित्थं व्याख्यायते । आर्षे विवाहे गोमिथुनं शुल्कमुत्कोचरूपमिति केचिदाचार्या वदन्ति, मनोस्तु मतं नेदं शास्वनियमितजातिसंख्याकं ग्रहणं न शुल्करूपम् । शुल्कत्वे मूल्याल्पत्वमहत्वे अनुपयोगिनी विक्रय एव तदा स्यात् । किंत्वार्षविवाहसंपत्त्यै अवश्यकर्तव्ययागादिसिद्धये कन्याय वा दातुं शास्त्रीयं धर्मार्थमेव गृह्यते । अतएवार्षलक्षणश्लोके 'वरादादाय धर्मतः' इति धर्मतो धर्मार्थमिति तस्यार्थः। भोगलोभेन तु धनग्रहणं शुल्करूपमशास्त्रीयम् । अतएव 'ग्रह्णन् शुल्कं हि लोभेन' इति निन्दामुक्तवान् । तस्मात्पौर्वापर्यपर्यालोचनादा धर्मार्थ गोमिथुनं ग्राह्यं नतु भोगार्थमिति मनुना स्वमतमनुवणितम् ॥ ५३ ॥ आर्षे गोमिथुनं शुल्कमित्युक्तं, इदानों कन्यार्थमपि धनस्य दानं न शुल्कमित्याह-

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंसं च केवलम् ॥ ५४ ॥

यासामिति ॥ यासां कन्यानां प्रीत्या वरेण दीयमानं धनं पित्रादयो न गृह्णन्ति किंतु कन्यायै समपर्यन्ति सोऽपि न विक्रयः । यस्मात्कुमारीणां पूजनं तदानृशंस्यमहिंसकत्वं केवलं तदनुकम्पारूपम् ॥ ५४ ॥

पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः॥ ५५॥

पितृभिरिति ॥ न केवलं विवाहकाले वरेण दत्तं धनं समर्पणीयं किंतु तदुत्तरकालमपि पित्रादिभिरप्येता भोजनादिना पूजयितव्याः वस्त्रालंकारादिना भूषयिनच्याश्च बहुधनादिसंपदं प्राप्तुकामैः ॥ ५५ ॥

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः॥५६॥

यत्रेति ॥ यत्र कुले पित्रादिभिः स्त्रियः पूज्यन्ते तत्र देवताः प्रसीदन्ति । यत्र पुनरेता न पूज्यन्ते तत्र देवताप्रसादाभावाद्यागादिक्रियाः सर्वा निष्फला भवन्तीति निन्दार्थवादः ॥ ५६ ॥