पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ८७

पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान्'स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः॥४९॥ पुमानिति ॥ पुसो बीजेऽधिकेऽयुग्मास्वपि पुत्रो जायते। स्त्रीबीजेऽधिके युग्मास्वपि दुहितैव । अतो वृष्याहारादिना निजबीजाधिक्यं भार्यायाश्चाहारलाघवादिना बीजाल्पत्वमवगम्य युग्मास्वपि पुत्रार्थिना गन्तव्यमिति दार्शतम् । स्त्रीपुंसयोस्तु बीजसाम्येऽपुमान्नपुंसकं जायते । पुंस्त्रियाविति यमौ च । निःसारेऽल्पे चोभयोरेव बीजे गर्भस्यासंभवः ॥ ४९ ॥

निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्येव भवति यत्रतत्राश्रमे वसन् ॥ ५० ॥

निन्द्येति ॥ निन्द्यासु पूर्वोक्तासु षट्सु रात्रिषु अन्यासु च निन्द्यास्वपि यासु कासुचिदष्टासु स्त्रियो वर्जयन्द्वे रात्री अवशिष्टे पर्ववर्जिते व्रजन्नखण्डितब्रह्मचार्येव भवति । यत्रतत्राश्रमे वसन्निति वानप्रस्थापेक्षया । तस्य हि भार्यया सह गमनपक्ष ऋतुगमनं प्रसक्तम् । नच वनस्थभार्याया ऋतुर्न भवतीति वाच्यम् । 'वनं पञ्चाशतो ब्रजेत्' इति, 'वषैरेकगुणां भार्यामुबहेविगुणः पुमान्' इत्यादिशास्वपर्यालोचनया तत्संभवात् । मेधातिथिस्तु 'यत्रतत्राश्रमे वसन्नित्यनुवादमात्रम् । गृहस्थेतराश्रमत्रये जितेन्द्रियत्वविधानाद्वात्रिद्वयाभ्यनुज्ञानासंभवात्' इत्याह । गोविन्दराजस्तु 'उत्पन्नविनष्टपुत्रस्याश्रमान्तरस्थस्यापीच्छया पुत्रार्थं रात्रिद्वयगमने दोषाभावप्रतिपादनार्थमेतत् । यत्रतत्राश्रमे वसन्निति वचनात्पुत्रार्थी संविशेदितिच प्रस्तुतत्वात्पुत्रस्य च महोपकारकत्वात्' इत्याह । 'हन्त गोविन्दराजेन विशेषमविवृण्वता । व्यक्तमङ्गीकृतमृतौ स्वदारसुरतं यतेः ॥५०॥

न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ।
गृहंश्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥५१॥

नेति ॥ कन्यायाः पिता धनग्रहणदोषज्ञोऽल्पमपि धनं कन्यादाननिमित्तकं न गृह्णीयात् । यस्माल्लोभेन तद्नपत्यविक्रयी भवति ॥ ५१ ॥

स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः।
नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ५२ ॥

स्त्रीधनानीति ॥ कन्यादाननिमित्तकशुल्कग्रहणनिषेधप्रसङ्गानवमाध्यायाभिधेयस्त्रीधनग्रहणनिषेधोऽयम् । ये बान्धवाः पतिपित्रादयः कलत्रदुहित्रादिधनानि गृह्णन्ति नारी स्त्री, यानान्यश्वादीनि, वस्त्रं चेति प्रदर्शनार्थम् । सर्वमेव धनं न ग्राह्यम् । ते गृह्णानाः पापकारिणो नरकं गच्छन्ति ॥ ५२ ॥

आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।
अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः॥ ५३॥