पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः ३

परार्थकल्पनाप्राप्तबाधात्मकदोषत्रयदुष्टत्वात् । ऋतुकालेऽपि रागतः पक्षे गमनप्राप्तौ यस्मिन्पक्षेऽप्राप्तिस्तत्र विधिः ‘समे यजेत' इतिवत् । अतएव ऋतावगमने दोपमाह पराशरः-ऋतुस्नातां तु यो भार्या सन्निधौ नोपगच्छति । घोरायां भ्रूणहत्यायां पतते नात्र संशयः ॥' अनुत्पन्नपुत्रस्य चायं नियमः। 'ब्राह्मणो ह वै जायमानस्त्रिभित्रणैर्ऋणवाञ्जायते यज्ञेन देवेभ्यः प्रजया पितृभ्यः स्वाध्यायेनर्षिभ्यः' इत्येतत्प्रत्यक्षश्रुतिमूलत्वेऽस्य संभवति मूलान्तरकल्पनस्यायुक्तत्वात् । 'तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियम्' इति च वक्ष्यति। ततोऽप्येतच्छ्रुतिमूलत्वमवगम्यते । पुत्रोत्पादनशास्त्रस्य चैकपुत्रोत्पादनेनैव चरितार्थत्वात् 'कामजानितरान्विदुः' इति दर्शनादजातपुत्रस्यैव नियमः । 'दशास्यां पुत्रानाधेहि'इति मन्त्रस्तु बहुपुत्रप्रशंसापरः ।जातपुत्रस्याप्यतुकालगमननियमो न दशस्वेवावतिष्ठते । स्वदारनिरतः सदेति नित्यं स्वदारसंतुष्टः स्यान्नान्यभार्यामुपगच्छेदिति विधानात्परिसंख्यैव । वाक्यानर्थक्यात्स्वदारगमनस्य प्रशस्तत्वात् । ऋतावगमने दोषाश्रवणाञ्च न नियमविधिः । पर्ववर्ज ब्रजेचैनामिति । पर्वाण्यमावास्यादीनि वक्ष्यन्ते । तानि वर्जयित्वा भार्याप्रीतिव्रतं यस्य स ततोऽनृतावप्युपेयात् । अतएव रतिकाम्यया नतु पुनोत्पादनशास्त्रबुद्ध्या । तस्माद्विधिनयमिदं-ऋतावुपेयादेव, अन्यभार्या नोपगच्छेत् , अनृतावपि भार्याप्रीतये गच्छेदिति । अत्रच गौतमः 'ऋतावुपेयादनृतौ च पर्ववर्जम्' । याज्ञवल्क्योऽप्याह-'यथाकामी द्वापि स्त्रीणां वरमनुस्मरन्' । पर्ववर्जमिति ऋतावनृतौ चोभयत्र संबध्यते ॥ ४५ ॥

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः।
चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥४६॥

ऋतुरिति ॥ अत्र रात्र्यहःशब्दावहोरात्रपरौ । शोणितदर्शनात्प्रभृति स्त्रीसंपर्कगमनादौ शिष्टनिन्दितैश्चतुर्भिरन्यैरहोरात्रैः सह पोडशाहोरात्राणि मासि मासि स्त्रीणामृतुः । स्वभावे भवः स्वाभाविकः । व्याध्यादिना तु न्यूनाधिककालोऽपि भवति ॥ ४६॥

तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास्तु प्रशस्ता दश रात्रयः॥४७॥

तासामिति ॥ तासां पुनः पोडशानां रात्रीणां शोणितदर्शनात्प्रभृति आधाश्च- तस्रो रात्रय एकादशी त्रयोदशी च रात्रिर्गमने निन्दिता । अवशिष्टा दश रात्रयः प्रशस्ता भवेयुः ॥ ४७ ॥

युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
तसाधुग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥४८॥

युग्मास्विति ॥ पूर्वोक्तास्वपि दशसु पष्टयष्टम्याद्यासु रात्रिषु गमने पुत्रा उत्पद्यन्ते । अयुग्मासु पञ्चमीसप्तम्यादिषु दुहितरः । अतः पुत्रार्थी युग्मासु ऋतुकाले भार्यां गच्छेत् ॥ ४८ ॥