पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः ३] मन्वर्थमुक्तावलीसंवलिता। ७७

वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥२॥

वेदानधीत्येति वेदशब्दोऽयं भिन्नवेदशाखापरः । स्वशाखाध्ययनपूर्वकवेदशाखात्रयं द्वयमकां वा शाखां मन्नब्राह्मणक्रमेणाधीत्य गृहस्थाश्रमं गृहस्थविहितकर्मकलापरूपमनुतिष्ठेत् । कृतदारपरिग्रहो गृहस्थः । गृहशब्दस्य दारवचनत्वात् । अविप्लुतब्रह्मचर्य इति पूर्वविहितस्त्रीसंयोगमधुमांसभक्षणवर्जनरूपब्रह्मचर्यानुवादोऽयं प्रकृष्टाध्ययनाङ्गत्वख्यापनार्थः । रुपशक्त्यपेक्षश्चायमेकद्वित्रिशाखाध्ययनविकल्पः। यद्यपि व्रतानि वेदाध्ययनं च नित्यवदुपदिशता मनुनोभयस्नातक एव श्रेष्ठत्वादभिहितस्तथापि स्मृत्यन्तरादन्यस्नातकोऽपि बोद्धव्यः । तदाह हारीत:--'त्रयः स्नातका भवन्ति विद्यास्नातको व्रतस्नातको विद्याव्रतस्नातकश्च' इति । यः समाप्य वेदमसमाप्य व्रतानि समावर्तते स विद्यास्नातकः । यः समाप्य व्रतान्यसमाप्य वेदं समावर्तते स व्रतस्नातकः । उभयं समाप्य समावर्तते यः स विद्याव्रतस्नातकः । याज्ञवल्क्योऽप्याह-'वेदं व्रतानि वा पारं नीत्वा ह्युभयमेव वा' इति ॥ २॥

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः।
स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥३॥

तमिति ॥ तं ब्रह्मचारिधर्मानुष्ठानेन ख्यातं, दीयत इति दायः ब्रह्मैव दायो ब्रह्मदायः तं हरतीति ब्रह्मदायहरं, पितुः पितृतो गृहीतवेदमित्यर्थः । पितृतोऽध्ययनं मुख्यमुक्तं, पितुरभाव आचार्यादेरप्यधीतवेदं मालयालंकृतं उत्कृष्टशयनोपविष्टं गोसाधनमधुपर्केण पिता आचार्यो वा विवाहात्प्रथमं पूजयेत् ॥ ३ ॥

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्या सवर्णां लक्षणान्विताम् ॥ ४॥

गुरुणेति ॥ गुरुणा दत्तानुज्ञः स्वगृह्योक्तविधिना कृतस्नानसमावर्तनः समानवर्णी शुभलक्षणां कन्यां विवहेत् ॥ ४॥

असपिण्डा च या मातुरसगोत्रा च या पितुः।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥५॥

असपिण्डा चेति ॥ मातुर्या सपिण्डा न भवति । सप्तमपुरुषपर्यन्तं सपिण्डतां वक्ष्यति 'सपिण्डता तु पुरुपे सप्तमे विनिवर्तते' इति । तेन मातामहादिवंशजा जाया न भवतीत्यर्थः । चशब्दान्मातृसगोत्रापि मातृवंशपरंपराजन्मनाम्नोः प्रत्यभिज्ञाने सति न विवाह्या, तदितरा तु मातृसगोत्राविवाह्येति संगृहीतं तथाच -'सगोत्रां मातुरप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविज्ञान उद्वहेदविशङ्कितः ॥' यत्तु मेधातिथिना वसिष्ठनाम्ना मातृसगोत्रानिषेधवचनं लिखितम्-'परिणीय संगोत्रां तु समानप्रवरां तथा। तस्यां कृत्वा समुत्समै द्विजश्चान्द्रायणं चरेत् । मातुलस्य सुतां चैव मातृगोत्रां तथैव च' इति । तदपि मातृवंशजन्मव्यास:-