पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


मनुस्मृतिः। [ अध्यायः ३

एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः।
स गच्छत्युत्तमस्थानं न चेहाजायते पुनः ॥ २४९ ॥

इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां द्वितीयोऽध्यायः ॥२॥

एवं चरतीति ॥ 'आ समाप्तेः शरीरस्य' इत्यनेन यावजीवमाचार्यशुश्रूषाया मोक्षलक्षणं फलम्। इदानीमाचार्य मृतेऽपि एवमित्यनेनानन्तरोक्तविधिना आचा- र्यपुत्रादीनामप्यग्निपर्यन्तानां शुश्रूषको यो नैष्ठिकब्रह्मचर्यमखण्डितव्रतोऽनुति- ष्ठति स उत्तमं स्थानं ब्रह्मण्यात्यन्तिकलक्षणं प्राप्नोति। न चेह संसारे कर्मवशा- दुत्पत्तिं लभते ॥ २४९ ॥

इति श्रीकुलकभट्टकृतायां मन्वर्थमुक्तावल्यां मनुवृत्तौ द्वितीयोऽध्यायः ॥२॥

अथ तृतीयोऽध्यायः।

पूर्वत्र ‘आ समाप्तेः शरीरस्य' इत्यनेन नैष्ठिकब्रह्मचर्यमुक्तं न तत्रावध्यपेक्षा । आ समावर्तनादित्यनेन चोपकुर्वाणकस्य सावधिब्रह्मचर्यमुक्तम् । अतस्तस्यैव गाहस्थ्याधिकारः । तत्र कियदवधिविधौ ब्रह्मचर्ये तस्य र्हस्थ्यमित्यपेक्षायामाह-

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥१॥

पदात्रिंशदाब्दिकमिति ॥ त्रयो वेदा ऋग्यजुःसामाख्यास्तेषां समाहारस्त्रिवेदी तद्विषयं व्रतं स्वगृह्योक्तनियमसमूहरूपं पत्रिंशद्वर्षे यावगुरुकुले चरितव्यम्। षट्त्रिंशदाब्दिकमिति षट्त्रिंशदब्दशब्दात् 'काला' अस्मिंश्च पक्षे 'समं स्यादश्रुतत्वात्'इति न्यायेन प्रतिवेदशाखं द्वादशवर्षाणि व्रताचरणम् । तदर्धिकमष्टादश वर्षाणि ।तत्र प्रतिवेदशाखं षट् । पादिकं नव वर्षाणि । तत्र प्रतिवेदशाखं त्रीणि । यावता कालेनोक्तावधेरूमधो वा वेदान्गृह्णाति तावत्कालं वा व्रताचरणम् । विषमशिष्टत्वेऽपि पक्षाणामेका देयास्तिस्रो देयाः षड्देयाइतिवन्नियमफले न्यूनापेक्षो विकल्पः । तथा च श्रुतिः-'नियमेनाधीतं वीर्यवत्तरं भवति' इति । ग्रहणान्तिकपक्षसंदर्शनात्पूर्वोक्तपक्षत्रये ग्रहणादूर्ध्वमपि व्रतानुष्ठानमवगम्यते । अथर्ववेदस्यग्र्वेदांशत्वेऽपि'ऋग्वेदं यजुर्वेदं सामवेदमथर्वाणं चतुर्थम्' इति छान्दोग्योपनिपदि चतुर्थवेदत्वेन कीर्तनात् । 'अङ्गानि वेदाश्चत्वारः' इति विष्णुपुराणादिवाक्येषु च पृथङिदेशाचतुर्थवेदत्वेऽपि प्रायेणाभिचाराद्यर्थत्वाद्यज्ञविद्यायामनुपयोगाच्चानिर्देशः। तथाहि 'ऋग्वेदेनैव हौत्रं कुर्वन्यजुवैदेनाध्वर्यवं सामवेदेनौगात्रं यदेव जय्यै विद्यायै सूक्तं तेन ब्रह्मत्वम्' इति श्रुतेस्त्रयीसंपाद्यत्वं यज्ञानां ज्ञायते । अयं च मानवस्त्रैवेदिकव्रतचर्याविधिर्नाथर्ववेदव्रतचर्यां निषेधयति । तत्परत्वे वाक्यभेदप्रसङ्गाच्छ्रुत्यन्तरे वेदमात्रे व्रतश्रवणाञ्च । यदाह योगियाज्ञवल्क्यः-'प्रतिवेदं ब्रह्मचर्य द्वादशाब्दानि पञ्च वा' ॥१॥