पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अध्यायः २] मन्वर्थमुक्तावलीसंवलिता । ७१ अस्य तु प्रायश्चित्तविधेरर्थवादमाह-

सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः।
प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ २२१ ॥

सूर्येणेति ॥ यस्मात्सूर्येणाभिनिर्मुक्तोऽभ्युदितश्च निद्राणः प्रायश्चित्तमकुर्वन्महता पापेन युक्तो नरकं गच्छति । तस्माद्यथोक्तप्रायश्चित्तं कुर्यात् ॥ २२ ॥ यस्मादुक्तप्रकारेण संध्यातिक्रमे महत्पापमतः-

आचम्य प्रयतो नित्यमुभे संध्ये समाहितः।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २२२ ॥

आचम्येति ॥ आचम्य पवित्रो नित्यमनन्यमनाः शुचिदेशे सावित्री जपन्नुभे संध्ये विधिवदुपासीत ॥ २२२ ॥

यदि स्त्री यद्यवरजः श्रेयः किंचित्समाचरेत् ।
तत्सर्वमाचरेद्युक्तो यत्र वास्य रमेन्मनः ॥ २२३ ॥

यदीति ॥ यदि स्त्री शूद्रो वा किंचिच्छ्रेयोऽनुतिष्ठति तत्सर्वं युक्तोऽनुतिष्ठेत् । यत्र च शास्त्रानिषिद्ध मनोऽस्य तुप्यति तदपि कुर्यात् ॥ २२३ ॥ श्रेय एव हि धर्मार्थों तद्दर्शयति-

धर्मार्थावुच्यते श्रेयः कामार्थो धर्म एव च ।
अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः॥ २२४ ॥

धर्मार्थाविति ॥ धर्मार्थों श्रेयोऽभिधीयते कामहेतुत्वादिति केचिदाचार्या मन्यन्ते । अन्ये त्वर्थकामा सुखहेतुत्वाच्छ्रेयोऽभिधीयते । धर्म एवेत्यपरे। अर्थकामयोरप्युपायत्वात् । अर्थ एवेह लोके श्रेय इत्यन्ये । धर्मकामयोरपि साधनत्वात् । संप्रति स्वमतमाह-धर्मार्थकामात्मकः परस्पराविरुद्धस्त्रिवर्ग एव पुरुषार्थतया श्रेय इति विनिश्चयः । एवं च बुभुक्षून्प्रत्युपदेशो न मुमुक्षुन् । मुमुक्षूणां तु मोक्ष एव श्रेय इति षष्ठे वक्ष्यते ॥ २२४ ॥

आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २२५ ॥

आचार्यश्चेति ॥ आचार्यों जनको जननी च भ्राता च सगर्भो ज्येष्टः पीडितेनाप्य- मीनावमाननीयाः विशेषतो ब्राह्मणेन यस्मात् ॥ २२५ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस्तु भ्राता खो मूर्तिरात्मनः ॥२२६॥

आचार्य इति ॥ आचार्यों वेदान्तोदितस्य ब्रह्मणः परमात्मनो मूर्तिःशरीरं, पिता हिरण्यगर्भस्य, माता च धारणात्पृथिवीमूर्तिः, भ्राता च स्वः सगर्भः क्षेत्रज्ञस्य । तस्माद्देवतररूपा एता नावमन्तव्याः ॥ २२६ ॥