मनुस्मृतिः। [ अध्यायः २
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । |
कामं त्विति॥कामं तु गुरुपत्नीनां युवतीनां स्वयमपि युवा यथोक्तविधिना 'अभिवादयेऽमुकशर्माहं भोः' इति ब्रुवन्पादग्रहणं विना यथेष्टमभिवादनं कुर्यात्॥२१६॥
विप्रोप्य पादग्रहणमन्वहं चाभिवादनम् । |
विप्रोष्येति ॥ प्रवासादागत्य सव्येन सव्यं दक्षिणेन च दक्षिणमित्युक्तविधिना पादग्रहणं प्रत्यहं भूमावभिवादनं च गुरुपत्नीपु युवा कुर्यात् । शिष्टानामयमाचार इति जानन्तु ॥ २१७ ॥ उक्तस्य शुश्रूषाविधेः फलमाह-
यथा खनन्खनित्रेण नरो वार्यधिगच्छति । |
यथेति ॥ यथा कश्चिन्मनुष्यः खनित्रेण भूमि खनन् जलं प्राप्नोनि, एवं गुरौ स्थितां विद्यां गुरुसेवापरः शिष्यः प्राप्नोति ॥ २१८॥ ब्रह्मचारिणः प्रकारत्रयमाह-
मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखाजटः। |
मुण्डो वेति ॥ मुण्डितमस्तकः, शिरःकेशजटावान्वा, शिखैव वा जटा जाता यस्य वा, परे शिरःकेशा मुण्डितास्तथा वा भवेत् । एनं ब्रह्मचारिणं क्वचिद्ग्रामे निद्राणं, उत्तरत्र शयानमिति दर्शनात्सूर्यो नाभिनिम्लोचेन्नास्तमियात् ॥ २१९ ॥ अत्र प्रायश्चित्तमाह-
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः। |
तं चेदिति ॥ तं चेत्कामतो निद्राणं निद्रोपवशत्वेन सूर्योऽभ्युदियादस्तमियात्तदा सावित्री जपन्नुभयत्रापि दिनमुपवसन् रात्रौ भुञ्जीत । अभिनिर्मुक्तस्योत्तरेऽहनि उपवासजपौ । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञा, ततः कर्मप्रवचनीययुक्ते द्वितीया । सावित्रीजपं तु गोतमवचनात् । तदाह गोतमः-'सूर्याभ्युदितो ब्रह्मचारीतिष्ठेत् अहरभुजानोऽभ्यस्तमितश्च रात्रिं जपन्सावित्रीम्' । ननु गोतमवचनात्सूर्याभ्युदितस्यैव दिनाभोजनजपावुक्तौ, अभ्यस्तमितस्य तु राज्यभोजनजपो, नैतत् अपेक्षायां व्याख्यासंदेहे वा मुन्यन्तरविवृतमन्वर्थमन्वयमाह(१) नतु स्फुटं मन्वथै स्मृत्यन्तरदर्शनादन्यथा कुर्मः। अतएव जपापेक्षायां गोतमवचनात्सावित्रीजपमभ्युपेय एव नतूभयत्र स्फुटं मनूक्तं दिनोपवासजपावपाकुर्गः । तस्मादभ्यस्तमितस्य मानवगोतमीयप्रायश्चित्तविकल्पः ॥ २२० ॥