मनुस्मृतिः । [ अध्यायः २
च्छति स प्रतिवातः, यः शिप्यदेशाद्गुरुदेशमागच्छति सोऽनुवातः, तत्र गुरुणा समं नासीत । तथाऽविद्यमानः संश्रवो यत्र तस्मिन्नसंश्रये । गुरुयंत्र न शृणोतीत्यर्थः । तत्र गुरुगतमन्यगतं वा न किंचित्कथयेत् ॥ २०३ ॥
गोऽश्वोष्ट्रयानप्रासादत्रस्तरेषु कटेषु च । |
गो इति ॥ यानशब्दः प्रत्येकमभिसंबध्यते । बलीवर्दयाने, घोटकप्रयुक्ते याने, उष्ट्रयुक्तयाने रथकाष्टादौ, प्रासादोपरि, त्रस्तरे, कटे च तृणादिनिर्मिते, शिलायां, फलके च दारुघटितदीर्घासने, नौकायां च गुरुणा सह आसीत ॥ २०४ ॥
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । |
गुरोर्मुराविति ॥ आचार्यस्थाचार्य सन्निहिते आचार्य इव तस्मिन्नप्यभिवादिकां वृत्तिमनुतिष्ठेत् । तथा गुरुगृहे वसन् शिष्य आचार्येणानियुक्तो न स्वान्गुरून्मातृपितृव्यादीनभिवादयेत् ॥ २०५ ॥
विद्यागुरुष्वेतदेव नित्या वृत्तिः खयोनिषु । |
विद्येति ॥ आचार्यव्यतिरिक्ता उपाध्याया विद्यागुरवः तेप्वेतदेवेति सामान्योपक्रमः । किं तदाचार्य इव नित्या सार्वकालिकी वृत्तिर्विधेया। तथा स्वयोनिष्वपि पितृव्यादिषु तद्वृत्तिः। अधर्मानिषेधत्सु धर्मतत्त्वं चोपदिशत्सु गुरुववर्तितव्यम् २०६
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । |
श्रेयःस्विति ॥ श्रेयःसु विद्यातपःसमृद्धेषु, आर्येष्विति गुरुपुत्रविशेषणम् । समानजातिगुरुपुत्रेपु गुरोश्च ज्ञातिष्वपि पितृव्यादिषु सर्वदा गुरुवद्वृत्तिमनुतिष्ठेत् । गुरुपुत्रश्वान शिष्याधिकवयाश्च बोद्धव्यः । शिष्यबलसमानवयसामनन्तरं शिष्यस्य वक्ष्यमाणत्वात् ॥ २०७ ॥
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । |
बाल इति ॥ कनिष्ठः सवया वा ज्येष्ठोऽपि वा शिष्योऽध्यापयन्नध्यापनसमर्थः । गृहीतवेद इत्यर्थः । स यज्ञकर्मणि ऋत्विगनृत्विग्वा यज्ञदर्शनार्थमागतो गुरुवत्पूजामर्हति ॥ २०८ ॥ आचार्यवदित्यविशेषेण पूजायां प्राप्तायां विशेषमाह-
उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । |