अध्यायः २] मन्वर्थमुक्तावलीसंवलिता। ६७. पराङ्मुखस्येति ॥ पराङ्मुखस्य वादिशतः संमुखस्थो, दूरस्थस्य गुरोः समीपमागत्य, शयानस्य गुरोः प्रणम्य प्रह्वो भूत्वा, निदेशे निकटेऽवतिष्ठतो गुरोरादिशतः प्रह्वीभूयैव प्रतिश्रवणसंभाषे कुर्यात् ॥ १९७ ॥
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । |
नीचमिति ॥ गुरुसमीपे चास्य गुरुशय्यासनापेक्षया नीचे एव शय्यासने नित्यं स्याताम् । यत्र च देशे समासीनं गुरुः पश्यति न तत्र यथेष्टचेष्टां चरणप्रसारादिकां कुर्यात् ॥ १९८ ॥
नोदाहरेदस्य नाम परोक्षमपि केवलम् । |
नोदाहरेदिति ॥ अस्य गुरोः परोक्षमपि उपाध्यायाचार्यादिपूजावचनोपपदशून्यं नाम नोच्चारयेत् । नतु गुरोर्गमनभाषितचेष्टितान्यनुकुर्वीत गुरुगमनादिसदृशान्यात्मनो गमनादीन्युपहासबुझ्या न कुर्वीत ॥ १९९ ॥
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते । |
गुरोर्यत्रेति ॥ विद्यमानदोषस्याभिधानं परीवादः, अविद्यमानदोषाभिधानं निन्दा । यत्र देशे गुरोः परीवादो निन्दा च वर्तते तत्र स्थितेन शिष्येण कर्णौ हस्तादिना तिरोधातव्यौ । तस्माद्वा देशाद्देशान्तरं गन्तव्यम् ॥ २०० ॥ इदानीं शिष्यकर्तृकपरीवादकृतफलमाह-
परीवादात्खरो भवति श्वा वै भवति निन्दकः। |
परीवादादिति ॥ गुरोः परीवादाच्छिष्यो मृतः खरो भवति । गुरोर्निन्दकः कुक्कुरो भवति । परिभोक्ता अनुचितेन गुरुधनेनोपजीवकः कृमिर्भवति । मत्सरी गुरोरुत्कर्षासहनः कीटो भवति । कीटः कृमिभ्यः किंचित्स्थूलो भवति ॥ २०१॥
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः। |
दूरस्थ इति ॥ दूरस्थः शिष्योऽन्यं नियुज्य माल्यवस्त्रादिना गुरुं नार्चयेत् । स्वयं गमनाशक्तौ त्वदोषः । क्रुद्धः कामिनीसमीपे च स्थितं स्वयमपि नार्चयेत् । यानासनस्थश्च शिष्यो यानासनादवतीर्य गुरुमभिवादयेत्। यानासनस्थश्चैवैनं प्रत्युत्थायेत्यनेन यानासनादुत्थानं विहितमनेन तु यानासनत्याग इत्यपुनरुक्तिः ॥ २०२ ॥
प्रतिवातेऽनुवाते च नासीत गुरुणा सह । |
प्रतिकात इति ॥ प्रतिगतोऽभिमुखीभूतः शिष्यस्तदा गुरुदेशाच्छिष्यदेशमाग-