पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः। [ अध्यायः २

रक्तेन पर्युदस्यते । एतदेकान्नभोजनरूपं कर्म तद्राह्मणस्यैव वेदार्थविद्भिविहितं क्षत्रियवैश्ययोः पुनर्न चैतत्कर्मेति ब्रूते ॥ १९० ॥

चोदितो गुरुणा नित्यमप्रचोदित एव वा ।
कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ १९१ ॥

चोदित इति ॥ आचार्येण प्रेरितो न प्रेरितो वा स्वयमेव प्रत्यहमध्ययने गुरुहितेषु चोद्योगं कुर्यात् ॥ १९१ ॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ १९२ ॥

शरीरं चेति ॥ देहवाग्बुद्धीन्द्रियमनांसि नियम्य कृताञ्जलिगुरुमुखं पश्यंस्तिष्टेनोपविशेत् ॥ १९२ ॥

नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंयतः ।
आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः॥ १९३ ।।

नित्यमिति ॥ सततमुत्तरीयाबहिष्कृतदक्षिणबाहुः, शोभनाचारः, वस्त्रावृतदेहः, आस्यतामिति गुरुणोक्तः सन् गुरोरभिमुखं यथा भवति तथा आसीत ॥ १९३ ॥

हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ ।
उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ १९४ ॥

हीनान्नवस्त्रेति ॥ सर्वदा गुरुसमीपे गुर्वपेक्षया त्ववकृष्टान्नवस्त्रप्रसाधनो भवेत् । गुरोश्च प्रथमं रात्रिशेषे शयनादुत्तिष्ठेत् , प्रदोषे च गुरौ सुप्ते पश्चाच्छयीत ॥ १९४ ॥

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १९५ ॥

प्रतिश्रवणेति ॥ प्रतिश्रवणमाज्ञाङ्गीकरणं, संभाषणं च गुरोः शय्यायां सुप्तः, आसनोपविष्टो, भुञ्जानः, तिष्ठन् , विमुखश्च न कुर्यात् ॥ १९५ ॥ कथं तर्हि कुर्यात्तदाह-

आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः।
प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावस्तु धावतः॥ १९६ ॥

आसीनस्येति ॥ आसनोपविष्टस्य गुरोराज्ञां ददतः खयमासनादुत्थितः, तिष्ठतो गुरोरादिशतस्तदभिमुखं कतिचित्पदानि गत्वा, यथा गुरुरागच्छति तथाप्यभिमुखं गत्वा, यदा तु गुरुर्धावन्नादिशति तदा तस्य पश्चाद्धावन्प्रतिश्रवणसंभाषे कुर्यात् ॥ १९६ ॥

पराङ्मुखस्साभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ १९७।।